________________
२६०
षष्ठावरणमाह
सहस्रारे अष्टधा विभक्ते ऐरावताय पुण्डरीकाय वामनाय कुमुदायाञ्जनाय पुष्पदन्ताय सार्वभौमाय सुप्रतीकाय नम इति तत्पूजा बहिः 'सुधाऽब्धेर्वा । बाह्यप्राकाराष्टदिक्षु अध उपरि च हेतुकादयो भैरवक्षेत्रपालशब्दयुक्ताः प्रत्येकं क्षौमादयश्च यष्टव्याः । भीम
हेतुकत्रिपुरान्तकाग्नियमजिह्वैकपादकालकराळ रूपहाटकेशाचला दश भैरवाः ॥ ३२ ॥
परशुरामकल्पसूत्रम्
अष्टधा विभक्ते पञ्चविंशत्युत्तरशत दळेष्वेकैका देवता पूज्या । अमीषामेव देवतानां विकल्पेन स्थानान्तरमाह ब हिस्सु धाब्वे वेंति । सुधाऽब्ध्यधिकरणत्वेन कल्पितो यो देशः तस्मात् बहिरित्यर्थः । क्रमस्तु इन्द्रादीशानान्तं प्रदक्षिणम् । अत्र नमोऽन्तमन्त्रेषु सर्वत्र नमोऽन्ते देवतानाम । ततः श्रीपादुकामित्यष्टाक्षरीयोगः । यथा जम्भिन्यै नमः जम्भिनीश्री । बाह्य प्राकारे ति प्रथमचतुरश्र इत्यर्थः । हेतुकादयः अग्रिमसूत्रे वक्ष्यमाणाः दश अचलान्ताः प्रत्येकं प्रतिमन्त्रं क्षौं इति आदौ येषां ते यष्टव्याः पूज्याः । मन्त्रस्वरूपं – ऐं ग्लौं क्षौं हेतुकभैरवक्षेत्रपालश्री° । एवमग्रेऽपि योज्यम् । हेतुकादयः के इत्याकाङ्क्षायामाह — हे तुक त्रिपुरान्त के ति । द्वन्द्वान्ते श्रूयमाणं जिह्वापदं अग्नियमयोरुभयत्र अन्वेति । एवं च अग्निजिह्वेति यमजिह्वेति । भीमरूपः हाटकेशः इत्येकैकम् । शेषं स्पष्टम् ॥ ३२ ॥
1
देव्याः पुनः पूजा
उक्तमर्थमुपसंहरति-
एवं षडावरणीमिष्ट्रा पुनर्देवीं त्रिधा सन्तर्प्य सर्वैरुपचारैरुपचर्य ॥ ३३ ॥
1
सुरा - अ, श्री.