SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २५९ सप्तमः खण्डः-वाराहीक्रमः देव्यपदळमारभ्य प्रादक्षिण्येन, क्रमस्यानुक्तत्वात् । वाहनपूजामाह—त द्व.हि रि ति । अष्टदळाहिरित्यर्थः देवीपुरतः अयं पूज्यः, वाहनरूपत्वात् , वाहनस्थितेः सर्वत्र प्रधानदेवताऽग्रभागे दृष्टत्वात् ॥ ३० ॥ 'पञ्चमावरणमाह शतारे देवीपुरतो दळसन्धौ जम्भिन्या इन्द्रायाप्सरोभ्यः सिद्धेभ्यो द्वादशादित्येभ्योऽग्नये साध्येभ्यो विश्वेभ्यो देवेभ्यो विश्वकर्मणे यमाय मातृभ्यो रुद्रपरिचारकेभ्यो रुद्रेभ्यो मोहिन्यै निर्वतये राक्षसेभ्यो मित्रेभ्यो गन्धर्वेभ्यो भूतगणेभ्यो वरुणाय वसुभ्यो विद्याधरेभ्यः किन्नरेभ्यो वायवे स्तम्भिन्यै चित्ररथाय तुम्बुरवे नारदाय यक्षेभ्यः सोमाय कुबेराय देवेभ्यो विष्णवे ईशानाय ब्रह्मणे अश्विभ्यां धन्वन्तरये विनायकेभ्यो नम इति देवतामण्डलमिष्ट्वा तहहिः औं क्षौं क्षेत्रपालाय नमः सिंहवराय देवीवाहनाय नम इति च तदुभयं वरिवस्येत् । तहहिः महाकृष्णाय मृगराजाय देवीवाहनाय नम इति तत्पूजा ॥ ३१॥ देवतानामष्टत्रिंशत्सङ्ख्याकत्वात् तया सङ्ख्यया शतपत्रविभागासंभवात् अवश्यं सन्धयो हेयाः। तथा सति देव्याः पुरतः देवतासमसङ्ख्याकसन्धयो ग्राह्याः। शेषा हेयाः। तत्राप्युदगपवर्गलाभाय दक्षिणस्यामारम्भः, उत्तरे समाप्तिः । सर्वत्र नम:पदमनुषज्यते । ततः क्षेत्रपालादिपूजां विधत्तेतह हि रिति । तद्व हिः शतपत्रबहिः । वाहनरूपत्वात् देवीपुरत एव । यद्वा-तह हिः पूर्वपूजिताष्टत्रिंशद्देवताऽधिष्ठानदलसन्धिबहिः । तेन देवीपुरोभागस्त्वर्थात् सिध्यति । तदुभ यं क्षेत्रपालसिंहोभयम् । तद्व हिः क्षेत्रपालसिंहबहिः । तत्पूजा मृगराजपूजा । इति पञ्चमावरणम् ॥ ३१ ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy