________________
२५८
परशुरामकल्पसूत्रम् ग्रस ग्रस कमरयूं काकिनि अस्थिधातुं जम्भय जम्भय समरयूं साकिनि मज्जाधातुं गृह्ण गृह्ण हमरयूं हाकिनि शुक्रधातुं पिब पिब अणिमाऽऽदि वशं कुरु कुरु स्वाहा इति धातुनाथयजनम् ॥ २८ ॥
षट् को णे कोणाग्रेषु आक्षा ई इत्यादिषण्मन्त्रैः षड्देवताः पूजयेत् । ऐं ग्लौं आ क्षाई ब्रह्माणीश्री इति मन्त्रस्वरूपम् । एवमग्रेऽपि । म ध्ये षट्कोणमध्ये । स्वा हाऽन्तं एकं मन्त्रं दर्शयित्वा एतन्मन्त्रवर्णानन्यत्र कांश्चिदतिदिशति-ए व मि ति । एवं उक्तमन्त्रवदित्यर्थः । एवमतिदेशमुक्त्वा अतिदिष्टमन्त्रवर्णेषु बाधकमूह्यं तत्रैव क्वचित्स्थलविशेष दर्शयति--बीज इत्यादिना । बीज इत्येकवचनं 'जात्याख्यायां' इति रीत्या । बीजस्थाने वक्ष्यमाणबीजानां सन्नाम ऊहः कार्यः । एवं धा तौ वग्धातुस्थाने तत्तद्धातूनां, नाम नि याकिनीति नामस्थाने तत्तन्नाम्नां ऊहश्च कार्यः । शिष्टाः मन्त्रवर्णाः मम सर्वशत्रूणां इत्यादयः समानाः इति भावः । अथ द्वितीयादिमन्त्रेषु विशेषमाह-रमरयूमित्यादिना ॥ २८ ॥
अनन्तरं षडश्रोभयपार्श्वयोः क्रोधिनीस्तम्भिन्यौ चामरग्राहिण्यौ तत्रैव स्तम्भनमुसलायुधाय आकर्षणहलायुधाय नमः षडराइहिः पुरतो देव्याः क्षों क्रौं चण्डोच्चण्डाय नमः इति तद्यजनम् ॥ २९ ॥
अनन्तरं धातुनाथयजनानन्तरम् । षड श्री भ य पार्श्व योः इति उभयपार्श्वद्वयकोणान्तःप्रदेशो बोध्यः । मन्त्रस्वरूपं च ऐं ग्लौं क्रोधिनीचामरग्राहिणीश्री । एवं अपरम् । अग्रे चण्डोच्चण्डपूजाया बहिर्विधानात् , तत्रै वे ति षडश्रोभय पार्श्वयोरेवेत्यर्थः । इति तृतीयावरणम् ॥ २९ ॥
चतुर्थावरणमाह
अष्टदळे वार्ताळीवाराहीवराहमुख्यन्धिन्यादयः पञ्च, तबहिः महामहिषाय देवीवाहनाय नमः ॥ ३० ॥