________________
परशुरामकल्पसूत्रम्
गुरुसंतोषणम् यथाविभवं श्रीगुरुं सन्तोष्य ॥ ३५ ॥
यथा वि भवं स्वशक्तिं दृष्ट्वा । गुरुं सन्तो प्येत्यनेन गुरुसन्निधावस्यानुष्ठानं सूचितम् , दूरस्थे नित्यं सन्तोषणासंभवात् । तेन सति संभवे गुरुसन्निधौ फलाधिक्यं ज्ञेयम् ॥ ३५॥
शक्तिवटुकपूजा * शक्त्यादिपूजामाह
सम्पूर्णयौवनाः सलक्षणा मदनोन्मादिनीस्तिस्रः शक्तीराहय वटुकं चैकमभ्यर्च्य स्नपयित्वा गन्धादिभिरलंकृत्य वार्ताळीबुद्धया एकां शक्तिं मध्ये क्रोधिनीस्तम्भिनीबुद्धया द्वे इतरे पार्श्वयोश्चण्डोचण्डधिया वटुकमग्रे स्थापयित्वा सर्वैर्द्रव्यैः सन्तोष्य मम श्रीवार्ताळीमत्रसिद्धि यादिति ताः
प्रति वदेत् ताश्च प्रसीदन्त्वधिदेवता इति ब्रूयुः ॥३६॥ ... उक्तं रतिरहस्ये
षोडशाब्दं समारभ्य पञ्चविंशत्समावधि ।
रमणी पूर्णतारुण्या तत्र भोगोऽतिसौख्यदः ॥ इति ॥ लक्षणे न नेत्ररमणीयरूपेण म द नोन्मा दि नीः मदनवर्धिनीः आ हू या भ्य च्र्ये ति शक्ति षु वटु के चान्वेति । स पनं चात्राभ्यङ्गरूपम् । तच्च पूजायां स्नानावसरे कर्तव्यम् । ततो गन्धा दि भिरलं कु र्या त् । आदिपदेन वस्त्रभूषणादि ग्राह्यम् । अग्रे तासामग्रे स वै द्रव्यै रिति वाराहीपूजायां विहितप्रथमद्वितीयतृतीयरित्यर्थः । ताः इत्यनेन प्रार्थनं सुवासिनीनामेव न वटुकस्य ॥ ३६ ॥