________________
सप्तमः खण्डः -- वाराहीक्रमः
२५५
वाकू ग्लौं आदौ यस्यां ग्लौं वा गन्ते यस्यां मध्यतनवर्णानां ईदृशी मूर्तिकरणी विद्येत्यर्थः । एतेन आसनकल्पनानन्तरं मूर्तिकल्पनविधिरुन्नेयः । मन्त्रस्वरूपं ऐं ग्लौं ऌषाई वाराहिमूर्तये ठः ठः ठः ठः हुं फट् ग्लौं ऐं इति ॥ २०॥
आवाहनादिमुद्राबन्धनम्
मूलविद्यया आवाहन संस्थापनसंनिधापनसंनिरोधनसंमुखीकरणावकुण्ठनवन्दनधेनुयोनीबा ॥ २१ ॥
मूल विद्या मुच्चार्य तत्तन्मुद्रां बद्धा दर्शयन् तं तमर्थ भावयेत् इति भावः । आवाहनादिमुद्राबन्धनप्रकार उच्यते । हस्तद्वयकनिष्ठाग्रादिमणिबन्धान्तं ऊर्ध्वमुखसंलमं कृत्वा सर्वा अङ्गुलयोऽग्रभांगे किञ्चित्कुटिलाः कृत्वा कनिष्ठामूलद्वये स्पृष्ट्वा अङ्गुष्ठाग्रं न्यसेत् । इयं आवाह नी मुद्रा । इयमेव अधोमुखी चेत् संस्था पनी । मुष्टिद्वयं परस्परं संलग्नं सन्निधा पनी । अस्यामेव अङ्गुष्ठद्वयस्य मुष्टिद्वयोदरनिवेशः सन्निरोधिनी । सन्निरोधिन्येव मणिबन्धादाकनिष्ठं परस्परयोगेन उत्तानमुखी सम्मुखीकरण मुद्रा । अव कु ण्ठ न वे नु यो न्यः पूर्वमुक्ताः । उक्तार्थे प्रमाणं तन्त्रे
हस्तद्वयं चोर्ध्वमुखमृज्वङ्गुळियुतं युतम् । अङ्गुल्यग्राणि भुग्नानि कनिष्ठामूलभागतः ॥ अङ्गुष्ठाग्रसमायोगान्मुद्रैषाऽऽवाहिनी मता । अधोमुखी चेयमेव स्थापनाख्या समीरिता ॥ दरता भवेत् सा सन्निधापनी । इयमङ्गुष्ठगर्भा तु सन्निरोधनरूपिणी ॥ इयमेवोत्तानरूपा सम्मुखीकरणाभिधा ॥ इति ॥
आवाहनादिमुद्रा अनूद्य तदङ्गत्वेन मूलमन्त्रविधानात् " प्रतिप्रधानमङ्गावृत्तिः " इति न्यायेन " सृष्टीरुपदधाति " इतिवत् यावत्यो मुद्रा विहिताः तावतीषु मुद्रासु बध्यमानासु तावद्वारं मूलमावर्तयेत् न तु सकृन्मूलमुच्चार्य सर्वमुद्राबन्धनं इति ज्ञेयम् ॥ २१ ॥
"