SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्रम् अत्र सोम मण्डलाय नमः इत्यन्तं मन्त्रत्रयम् । सर्वत्र नम इत्यस्यानुषङ्गः । सं सत्त्वाय नमः, रं रजसे नमः, तं तमसे नमः, इति गुण मन्त्राः । आ आत्मने नमः, 'अं अन्तरात्मने नमः, पं परमात्मने नमः, ह्रीं ज्ञानात्मने नमः, इति आत्ममन्त्राश्चत्वारः । इत्थं च स्वर्णप्राकारायेत्यारभ्य सप्तविंशतिः, तैः पीठपूजा कार्येत्यर्थः ॥ १८ ॥ ३५४ हौं प्रेतपद्मासनाय सदाशिवाय नमः इति चक्रोपरि देव्यासनविमृष्टिः ॥ १९ ॥ प्रेतरूपं यत्पद्मं तदभिन्नं यदा स नं तत्स्वरूपो यः सदा शिवः तस्मै नमः इति योजना । ननु – सदाशिवे प्रेतरूपत्वं कथं इति चेत्, एतदुक्तं ज्ञानार्णवे - पञ्चप्रेतान् महेशान ब्रूहि तेषां तु कारणम् । निर्जीवा अविनाशास्ते नित्यरूपाः कथं भवेत् ॥ इति पार्वतीप्र " 'साधु- पृष्टं त्वया इत्यारभ्य -- "" ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । पञ्च प्रेता वरारोहे निश्चला एव ते सदा ॥ ब्रह्मणः परमेशानि कर्तृत्वं सृष्टिरूपकम् । वामा शक्तिस्तु सा ज्ञेया ब्रह्मा प्रेतो न संशयः ॥ इत्यारभ्य " सदाशिवो महाप्रेतः केवलो निश्चलः प्रिये " इत्यन्तेन । अयमभिप्रायः - ब्रह्मादयः सदाशिवान्ताः वामाज्येष्ठादिस्वस्वशक्तिरहिताः स्पन्दनेऽप्यशक्ताः सन्तः प्रेततुल्या एवेति प्रेताः इति कथनम् । विमृष्टिः कल्पनम् ॥ १९ ॥ मूर्तिकल्पन मूर्तिकरणी विद्यामाह लुबाई वाराहमूर्तये ठः ठः ठः ठः हुं फट् इति वाग्ग्लौमादिग्लौं वागन्ता मूर्तिकरणी विद्या ॥ २० ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy