________________
___२५३
सप्तमः खण्डः-वाराहीक्रमः आं आधारशक्तये कुं कूर्माय के कन्दाय अं अनन्तनाळाय नमः इति च धर्मादिभिः सह षोडशमन्त्रैः पीठे अभ्यर्च्य ॥ १६ ॥ ___ तत्र चक्रे । स्वर्ण प्रा का रा दयः चतुर्थ्यन्ताः । अष्टौ न मोऽन्ताः मन्त्राः, तैः पीठ मध्यपूजनं, धर्मा दि चतुर्भिः अधर्मादिचतुर्भिश्च गणपतिक्रमे कुप्तस्थाने पूजनं, 'मिळित्वा षोड श भिः पीठपूजनं भवति । पीठपदेन देवताऽऽयतनं चक्रमेव, अग्रिमसूत्रे " चक्रमनुना चक्रमिष्ट्वा" इत्युक्तेः । न च-अग्रिममन्त्रेण चक्रपूजाऽस्तु, एभिः षोडशभिः चक्राधिष्ठानपीठपूजा आस्तां—इति वाच्यम् । त्रिपञ्चेत्यनेन यदि चक्रपूजनं अवशिष्टैः पीठपूजनं, तदा अग्रे " सप्तविंशतिकमिदं पीठे वरीवसनीयं" इति सूत्रोक्तसङ्ख्यापूर्तेरभावेन पीठपूजनमन्त्रेषु सप्तविंशतिकथनं असङ्गतं स्यात् ॥ १६ ॥
चक्रमनुमाह
त्रिपञ्चषडरदळाष्टकशतसहस्रारपद्मासनाय नमः इति चक्रमनुना चक्रमिष्ट्वा ॥ १७ ॥ ___ अत्र निबन्धे . अरशब्दस्य अनुषङ्गो दर्शितः । स चाशुद्धः । अनुषङ्गो हि मन्त्रभेदे दृष्टः । “चित्पतिस्त्वा पुनातु" इत्यादौ एकस्मिन् मन्त्रे अनुषङ्गो न दृष्टो न वा श्रुतः । प्रकृते मनुनेत्येकवचनेन मन्त्रे एकत्वं कृप्तम् । इत्थं च एकमन्त्रे अनुषङ्गं ब्रुवन् अङ्गनानामप्युपहासास्पदो भूत्वा स्वमौख्यं प्रकटीकृतवान् । द्वन्द्वान्ते श्रूयमाणं प्रत्येकं संबध्यते इति परिभाषां तदीयगुरु वदत् । अस्मिन् मन्त्रे अनुषङ्गं चकारेति प्रतिभाति । इत्यलं भूयसा ॥ १७ ॥
ततो मण्डलादीनां यजनमाह
वह्निमण्डलाय सूर्यमण्डलाय सोममण्डलाय नमः इति त्रयो गुणमत्राः आत्ममत्राः चत्वारः इति सप्तविंशतिकमिदं पीठे वरिवसनीयम् ॥ १८॥ ..