________________
परशुरामकल्पसूत्रम्
देवीध्यानम्
मूलेन सर्वेण व्यापकं कृत्वा देवीं ध्यात्वा ॥ १४ ॥
ध्यानं सूत्रे वक्ष्यमाणं, तन्त्रान्तरप्रसिद्ध ध्यानश्लोकरीत्याऽपि ज्ञेयम् । स ध्यानश्लोकः-
२५.२
पाथोरुहपीठगतां पाथोरुहमेचकां कुटिलदंष्ट्राम् । कपिलाक्षित्रितयां घनकुचकुंभां प्रणतवाञ्छितवदान्याम् । दक्षोर्ध्वतोऽरिखड्गां मुसलमभीतिं तदन्यतस्तद्वत् । शङ्खं खेटं हलवरान् करैर्दधानां स्मरामि वार्ताळीम् ॥ अत्र अरिः चक्रं, दक्षोर्ध्वतः ऊर्ध्वमारभ्य, तद्वत् वामेऽप्यूर्ध्वमारभ्यैव ॥ १४ ॥ चक्रनिर्माणप्रकार:
चक्रनिर्माणप्रकारमाह
पुरतः पटपट्टसुवर्णरजतताम्रचन्दनपीठादिनिर्मितं दृष्टिमनोहरं चतुरश्रत्रयसहस्रपत्रशतपत्राष्टपत्रषडश्रपञ्चाश्रत्र्यश्रबिन्दुलक्षणं कोलमुखीचक्रं विर
चय्य ॥ १५ ॥
पट: तूलमयः, पट्टः कौशेयः, पीठं फलकं, आदि पदेन नवरत्नपरिग्रहः । तेषु निर्मितम् । दृष्टि म नोहर मित्यनेन दळानां कोणानां च मानवैषम्यविरहः, दळमाने शास्त्रीयनियमाभावश्च सूचितः । तथाऽपि तत् शारदातिलकात् ग्राह्य एव । यन्त्रनिर्माणक्रमः प्रवेशरीत्या, बिन्दुचक्रस्य चरमपाठात् । शेषं स्पष्टम् ॥ १५ ॥
चक्रपूजा चक्रनिर्माणानन्तरं चक्रे कर्तव्यमाह -
तत्र कुसुमाञ्जलिं विकीर्य स्वर्णप्राकाराय सुधाऽब्धये वराहद्वीपाय वराहपीठाय नमः इति ।