________________
सप्तमः खण्ड:-वाराहीक्रमः
२५१
यद्वा-मातृकास्थानानुसारेण मूलपदसङ्कोचः कार्यः । तथा च प्रथममारभ्य मातृकास्थानेषु बीजत्रये पदत्रयं संपाद्य मूलपदेषु न्यस्यमानेषु उर्वरितचरमपदान्येकीकृत्य हुं अस्त्राय फट् इति मूर्ध्नि न्यसेत् ॥
न च मूलपदानुसारेण प्रयाजन्यायेन मातृकास्थानावृत्तिरेव किं न स्यात् इति वाच्यम् ; मातृकास्थानानां प्रथमं सूत्रे उल्लेखेन उपक्रमप्राबल्यमनुसृत्य तदनुसारेण चरमनिर्दिष्टमूलपदानां नेयत्वात् । युक्तश्चायमेव पक्षः । एतेन हुंफट्पदयोः निरर्थकत्वात् सुबन्तत्वे सति अर्थवत्त्वरूपं पदत्वं नास्तीति पूर्वपक्षोऽपि पराहतः । हुँ अस्त्राय फट् इत्यत्र सुप्तिङन्तत्वे सति अर्थवत्त्वाय हुंफट्छब्दयोः तदसत्त्वात् संघातकरणं युक्तं, नानुपपत्तिगन्धोऽपि ॥
नच-समासघटकपदानां निर्विभक्तिकानां कथं प्रयोग इति शङ्कनीयम् । यथा-" भवानि त्वं दासे मयि वितर दृष्टिं सकरुणामिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः” इत्यत्र त्वमित्यनुकरणे प्रयोगवत् तवापि कर्तुं शक्यत्वात् । अत एव क्वचिन्मन्त्र मन्त्रघटकवर्णन्यासोऽपि प्रकृतन्यासे दृष्टान्ताय भविष्यतीत्यलं भूयसा ॥ १२ ॥
- तत्त्वन्यासमाह- पूर्वोक्तानष्टखण्डानेकैकश उच्चार्य पूर्वोक्तेषु स्थानेषु ह्रां शर्वाय क्षितितत्त्वाधिपतये ह्रीं भवाय अम्बुतत्त्वाधिपतये लूं रुद्राय वह्नितत्वाधिपतये हैं उग्राय वायुतत्त्वाधिपतये ह्रौं ईशानाय भानुतत्वाधिपतये सों महादेवाय सोमतत्त्वाधिपतये हं महादेवाय यजमानतत्त्वाधिपतये औं भीमाय आकाशतत्वाधिपतये नमः इति तत्त्वन्यासः ॥ १३ ॥
पूर्वोक्तानेकत्रिंशत्सप्तेत्यादिना खण्डितानष्टखण्डान् पूर्वोक्तस्थानेषु पादादिजान्वित्यादिस्थानेषु सर्वत्र तत्त्वाधिपतये एतदनन्तरं नम इति पदस्यानुषङ्गेण योगः । इति तत्त्वन्यासः ॥ १३ ॥