________________
परशुरामकल्पसूत्रम् यद्वा-एकं साम त्रिचे क्रियते इत्युक्त्या ऋक्त्रये सर्वेष्वक्षरेषु सामगानं प्राप्तम् । एवं सति यत्र प्रथमा ऋक् अनुष्टुप्छन्दस्का द्वितीया जगती तत्र ' यद्योन्यां गायति तदुत्तरयोर्गायति' इत्यनेन प्रथमायां ऋचि यद्गानं तदेवोत्तरयोरतिदिष्टम् । तादृशं द्वात्रिंशदक्षरेषु समाप्तम् । शिष्टाक्षराणि गानेनासंस्कृतानि हेयानि इतिवत् मातृकास्थानेषु निखिलेषु प्राप्तः न्यासः मन्त्रानुसारेण द्विचत्वारिंशन्मातृकास्थानेषु न्यासो हृदयान्तेषु भविष्यतीति । स्थानसङ्कोचस्तु न्यायशून्यः प्रमाणशून्यश्च उन्मत्तप्रलापवद्धेयः ॥
वस्तुतस्तु मूलमन्त्रे एकपञ्चाशत्पदानां विभागस्य अस्माभिः दर्शितत्वात् स्थानानां तावतां सत्त्वात् नानुपपत्तिगन्धोऽपि ॥
न च सर्ववाक्चित्तेत्यादीनां समासघटकानां कथं पदत्वं इति वाच्यम् । किं नाम पदत्वम् ? नैय्यायिकमतरीत्या शक्तिमत्त्वं, उत वैय्याकरणरीत्या सुप्तिङन्तत्वम् । तव मतेऽपि नाद्यपक्षोऽभिमतः संभवति नैय्यायिकमते सुब्विभक्तीनामपि पदत्वेन तैः सह गणने द्विचत्वारिंशत्संख्याऽतीतानि पदानि, द्विचत्वारिंशत्त्वकथनं विरुद्धम् । सुप्तिङन्तं पदमिति द्वितीयपक्षो ममाप्यभिमतः अविरुद्धश्च । समासघटकेष्वपि सर्ववाक्चित्तेत्यादिष्वन्तर्वर्तिनी विभक्तिमाश्रित्य सुबन्तत्वमक्षतम् ॥
न च तत्र विभक्तेलृप्तत्वात् सुबन्तत्वं कथं इति शङ्कयम् । “ प्रत्ययलोपे प्रत्ययलक्षणम्" इत्यनेन लोपेऽपि तत्कार्यपदत्वसंभवात् । अन्यथा “राजपुरुषः" इत्यादौ राजोत्तरं नलोपो न स्यात् ॥
किं च तव मते वा द्विचत्वारिंशत्पदविभागेऽपि हुंफडादिपदानां पदत्वेन विभागो विरुध्येत, तेषामव्ययत्वेन तदुत्तरसुपो लुप्तत्वेन सुबन्तत्वाभावात् ॥
न च तव मते प्रदुष्टानां इत्यत्र प्र इत्यस्योक्तरीत्या पृथक्पदत्वेन प्रथमबीजत्रयस्य त्रिपदरूपत्वेन चतुःपञ्चाशत्पदानि भवन्ति, कथं संख्यासाम्यं--इति वाच्यम् । न पदत्वं तावत् केवलं सुप्तिङन्तत्वम् , किं तु सुप्तिङन्तत्वे सति अर्थवत्त्वम् । प्र इत्यस्योपसर्गस्य द्योतकत्वेन अर्थवत्त्वाभावात् न पदत्वं इति तद्विभागः । प्रथमबीजत्रयस्य प्रत्येकं तत्त्वेऽपि वाक्संपुटितग्लौं इति वाराहीमन्त्रोद्धारसूत्रस्वारस्यात् त्रयाणामेकस्तोमत्वम् । यथा “ गेहस्थं संपुटमानय' इत्यत्र आनयनकर्मत्वेन युगपत्पूर्वोत्तरावयवैतन्मध्यस्थवस्तु चान्वेति, एकस्तोमरूपत्वात् ॥