________________
सप्तमः खण्डः --- वाराहीक्रमः
२४९
पाणिद्वये इति षष्ठ्यर्थे सप्तमी । शाखामूले अङ्गुलिमूले । एवं एकपञ्चाशत्स्थानेषु मूलमन्त्रस्य एकपञ्चाशत्पदानि न्यसेत् । तानि चैकपञ्चाशत्पदानि । ऐं ग्लौं ऐं १, नमः २, भगवति ३, वार्ताळि ४, वार्ताळि ५, वाराहि ६, वाराहि ७, वराह ८, मुखि ९, वराह १०, मुखि ११, अन्धे १२, अन्धिनि १३, नमः १४, रुन्वे १५, रुन्धिनि १६, नमः १७, जम्भे १८, जम्भिनि १९, नमः २०, मोहे २१, मोहिनि २२, नमः २३, स्तम्भे २४, स्तम्भिनि २५, नमः २६, सर्व २७, दुष्ट २८, प्रदुष्टानां २९, सर्वेषां ३०, सर्व ३१, वाक् ३२, चित्त ३३, चक्षुः ३४, मुख ३५, गति ३६, 'जिह्वा ३७, स्तम्भनं ३८, कुरु ३९, कुरु ४०, शीघ्रं ४१, वश्यं ४२, ऐं ४३, ग्लौं ४४, ठ: ४५, ठ: ४६, ठ: ४७, ठः ४८, हुं ४९, 'अस्त्राय ५०, फट् ५१, इत्येकपञ्चाशत्पदानि ॥
मूलमन्त्रस्य एकपञ्चाशत्पदवत्त्वनिरूपणम्
लिखितस्यैवार्थस्य उपपत्तिर्लिख्यते । प्रकृतसूत्रेण मातृकान्यासस्थानाधिकरणकत्वविशिष्टमूलपदरूपमन्त्रकरणकत्वविशिष्टन्यासरूपं कर्म विधीयते । अनेन तत्र मातृकास्थानानां एकपञ्चाशत्सङ्ख्याकत्वात् मूलस्थपदानां असमसङ्ख्याकत्वात् कथं भवितव्यं इति भवति संशयः ॥
अत्र निबन्धकारः मूलं द्विचत्वारिंशत्पदघटितमिति मत्वा पदानुसारेण नेत्रद्वयादौ सङ्कोचेन एकत्वं संपाद्य स्थानसङ्कोचं कृत्वा स्थानेष्वपि द्विचत्वारिंशत्सङ्ख्यां संपादयामास ॥
तदतीव तुच्छम् । तथा हि-सूत्रे मातृकास्थानेष्वित्यविशेषेण मातृकास्थानानि न्यासाङ्गत्वेन विहितानि । मातृकास्थानान्येकपञ्चाशत् । तावतां प्रत्येकमङ्गत्वं उक्तसूत्रवशात् अप्रत्याख्येयम् । तथा सति तत्सङ्कोचं कृत्वा द्विचत्वारिंशत्स्थानसंपादनं स्वमौर्यप्रकाशायैव भवेत् ॥
न च मूले द्विचत्वारिंशत्पदानां सत्त्वात् तदनुसारेण स्थानसङ्कोच आवश्यक इति वाच्यम् ; स्थानानुरोधेन मन्त्रस्य प्रयाजन्यायेनावृत्त्या एकपञ्चाशत्सङ्ख्यापूरणस्यापि कर्तुं शक्यत्वात् ॥
1 ' मति' इत्यधिकः -- श्री.
32
24
'अस्त्राय ' इति नास्ति - श्री.