________________
२५६
परशुरामकल्पसूत्रम्
देव्यङ्गन्यासः
षडङ्गन्यासजालक्रमं च विवृणोति -
देव्यङ्गन्यस्तषडङ्गपञ्चाङ्गः ॥ २२ ॥
षडङ्ग मन्त्राः ऐं ग्लौं ऐं नमो भगवति इत्यादयः । पञ्चाङ्ग मन्त्राः अन्धे अन्धिनि इत्यादयः पूर्वोक्ताः । तैः देव्याः तत्त दङ्गेषु न्यासं भावयेत् ॥ २२ ॥
षोडशोपचारार्पणम्
अथ षोडशोपचारपदार्थकथनपूर्वकं तावतामर्पणं विधत्ते —
पाद्यार्थ्याचमनीयस्नानवासोगन्धपुष्प धूपदीपनीराजनछत्रचामरदर्पणरक्षाचमनीयनैवेद्यपानीयताम्बूलाख्यषोडशोपचारकृत्यन्ते ॥ २३ ॥
उपचारमन्त्रस्तु ऐं ग्लौं पाद्यं कल्पयामि नमः इति श्रीक्रमवत् ज्ञेयः ॥ २३ ॥ देवीध्यानम्
अथ देव्या ध्यानप्रकारमाह
ध्यानं देव्याः - मेघमेचका कुटिलदंष्ट्रा कपिलनयना घनस्तनमण्डला चक्रखड्गमुसलाभयशङ्खखेटहलवरपाणिः पद्मासीना वार्ताळी ध्येया ॥ २४ ॥
तथा च षोडशोपचारार्पणानन्तरं यावदवकाशं उक्तप्रकारेण मूर्ति ध्यायेत् इत्यर्थः । मेघ मे च का मेघश्यामळा, “ कालश्यामलमेचकाः " इत्यमरः । कुटिला वक्रां, “ कुटिलं भुग्नं वेल्लितं वक्रमित्यपि " इत्यमरः । ह लं लाङ्गलम् ॥ २४ ॥
देवीतर्पणम्
दशधा तस्यास्तर्पणं कुर्यात् ॥ २५ ॥