________________
२४५
सप्तमः खण्ड:-वाराहीक्रमः नाभिजठरहृदोर्मूलापरगळकक्षहृदादिपाणिपादयुगळजठराननेषु विन्यस्य ॥७॥
मा तृ का भिः आदिक्षान्तैः सं पु टि तां, संपुटितलक्षणमुक्तं प्राक् । द्वितारी प्रकृतत्वात् ऐं ग्लौं तां । तद्यथा-आदिक्षान्तं प्रथमं सबिन्दु उच्चार्य मध्ये ऐं ग्लौं इति वर्णद्वयं पुनरपि आदिक्षान्तं ततो नम:पदं न्यासरूपत्वात् । एवं वक्ष्यमाणैकचत्वारिंशत्स्थानेषु न्यसेदित्यर्थः । कं शिरः, “ कं शिरोऽम्बुनोः' इत्यमरः । आ न न वृत्तं मुखवृत्तं अक्षि द्वयं श्रोत्र द्वयं ना सा द्वयं गण्ड द्वयं ओष्ठ द्वयं दन्त पङ्क्तिद्वयं मूर्धा शिरः आ स्यं गुहारूपं दो यं पा द स न्धि द्वयं पादा ग्र द्वयं पार्श्व द्वयं पृष्ठः ना भिः जठरं कुक्षिः हृद्व क्षः दोर्मूलं गळस्यापरभागः पाश्चात्यदेशः क क्षः, पुनर्वामपार्श्व हृदादिकक्षपर्यन्तं, पाणि द्वयं पाद द्वयं पुनर्जठरं पुन रा न नं एवं एकचत्वारिंशस्थानेषु मातृकासंपुटितां द्वितारी न्यसेत् ॥
यत्तु निबन्धे अं ऐं ग्लौं अं नमः इति रीत्या क्षान्तवर्णैः प्रत्येकसंपुटितबीजद्वयं मातृकास्थानेषु न्यसेत् इति, तत् तुच्छम् । तथाहि-मातृकास्थानलेखस्य मूलं तन्त्रान्तरं कल्पसूत्रं वा । नाद्यः, एकचत्वारिंशत्स्थानपाठवैय्यर्थ्यात् । न द्वितीयः, एकपञ्चाशत्स्थानाभावात् तन्त्रान्तरोक्तमातृकास्थानक्रमाभावाच्च । तस्मात् निबन्धलेखः लिखितसूत्रविरुद्धो हेयः ॥ इति द्वितारीन्यासः ॥ ७ ॥
___ अङ्गुलिन्यासः अथाङ्गुळीन्यासमाह
अन्धे प्रभृति सप्तार्णपञ्चकमगुष्ठादिकनिष्ठान्तम् ॥ ८॥
अत्रापि पूर्वसूत्राद्विन्यस्येत्यस्यानुवृत्तिः । अन्धे अन्धिनि नमः इत्यादि स्तम्भे स्तंभिनि नमः इत्यतैः पञ्चभिः सप्तार्ण मन्त्रैः अङ्गुष्ठा दि क निष्ठा न्तं क्रमेण विन्यस्य । मन्त्रस्वरूपं तु-अन्धे अन्धिनि नमः अङ्गुष्ठाभ्यां नमः । एवमग्रेऽप्यूह्यम् ॥