________________
२४४
परशुरामकल्पसूत्रम्
भूतशुद्धिः अथ भूतशुद्धिं विधत्ते
मूलादिषण्मन्त्रैः यथामत्रं लिङ्गदेहं शोधयेत् ॥ ५॥
मूला दि ष ण्मन्त्रैः वक्ष्यमाणैः य था मन्त्रं मन्त्रे यथा लिङ्गमस्ति तथा लिङ्ग देहं सूक्ष्मदेहं शोधयेत् ॥ ५ ॥
तान् षण्मन्त्रानाह
मूलशृङ्गाटकात् सुषुम्नापथेन जीवशिवं परशिवे योजयामि स्वाहा यं सङ्कोचशरीरं शोषय शोषय स्वाहा रं सङ्कोचशरीरं दह दह पच पच स्वाहा वं परमशिवामृतं वर्षय वर्षय स्वाहा लं शांभवशरीरं उत्पादयोत्पादय स्वाहा हंसः सोऽहमवतरावतर शिवपदात् जीव सुषुम्नापथेन प्रविश मूलशृङ्गाटकमुल्लसोल्लस ज्वल ज्वल प्रज्वल प्रज्वल हंसः सोहं स्वाहा इति भूतशुद्धिं विधाय ॥ ६॥
स्वाहेत्यत्रैकमन्त्रसमाप्तिः । सुषुम्ना मार्गेण पर शि वे शिवयोजनशोषणदाहनाप्लावनशांभवशरीरोत्पत्तिजीवस्वस्थाननयनानि क्रमेण षण्मन्त्रैः कुर्यात् ॥ ६ ॥
एकचत्वारिंशत्स्थानेषु द्वितारीन्यास: अथ मातृकासंपुटितबीजाभ्यां न्यासमाह
मातृकासंपुटितां द्वितारी काननवृत्तव्यक्षिश्रुतिनासागण्डोष्ठदन्तमूर्धास्यदोःपत्सन्ध्यग्रपार्श्वद्वयपृष्ठ