________________
सप्तमः खण्डः -- वाराहीक्रमः
महारात्रे अनाहतध्वनेरनुसंधानम्
तत्र कथंभावाकाङ्क्षायामाह -
तत्रायं क्रमो महारात्रे बुद्धा स्वहृदयपरमाकाशे ध्वनन्तमनाहतध्वनिमूर्जितानन्ददायकमवमृश्य ॥ २ ॥
तत्र वाराह्युपास्तौ अयं वक्ष्यमाणः क्रमः प्रकारः । महा रात्रे इतिधूर्तस्वामिभाप्ये " महारात्रिस्त्रिभागावशिष्टा रात्रिः " इति । यद्वा - - महारात्रिः निशीथः, “ महारात्रिसमुत्पन्नः कृष्णो गोपालनन्दनः" इति ब्रह्मवैवर्तात्, कृष्णजन्मार्ध - रात्रे इति प्रसिद्धत्वात् । तस्मिन् समये बोधोत्तरकालीनक्रियामाह – स्वहृ द येति । स्व हृदय रूपो यः परम उत्कृष्ट आकाशः तस्मिन् ध्वनन्तं शब्दं कुर्वन्तं अनाहतस्य द्वादशदळकमलस्य ध्वनिं कराभ्यां कर्णपिधाने श्रूयमाणो यः शब्दः सोऽनाहतशब्द इत्युच्यते । स मध्यरात्रे बाह्यशब्दविर मे कर्णपिधानाभावेऽपि अनुभूयते । कथंभूतं ? ऊर्जितः सिद्धो य आनन्दः तस्य दायकं अभिव्यञ्जक अवमृश्य अनुसन्धाय कंचित् कालं श्रुत्वेत्यर्थः ॥ २ ॥
शिवादिगुरु नमस्कारः
शिवादिश्रीगुरुभ्यो नमः इति मूर्ध्नि बनी -
यादञ्जलिम् ॥ ३ ॥
शिवा दि इति स्पष्टम् ॥ ३ ॥
२४३
वाराहीक्रममन्त्रेषु बीजविशेषयोगः
वाराहीपद्धत सर्वमन्त्रेषु बीजविशेषस्य योगमाह -
वाचमुच्चार्य ग्लौं इति च पद्धतावस्यां सर्वे
मनवों जप्याः ॥ ४॥
अस्यां पद्धत सर्वमन्त्रादौ ऐं ग्लौं इति योज्यमित्यर्थः ॥ ४ ॥
1