________________
२४२
परशुरामकल्पसूत्रम्
कोलमुखीवरिवस्याविधिः
अथ वाराह्युपासनां वक्तुं प्रक्रमते --
इत्थं साङ्गां सङ्गीतमातृकामिष्ट्वा संवित्साम्राज्ञीसिंहासनाधिरूढाया ललिताया महाराज्ञ्या दण्डनायिकास्थानीयां दुष्टनिग्रहशिष्टानुग्रह निरर्गळाज्ञाचक्रां समयसङ्केतां कोलमुखीं विधिवद्वरिवस्येत् ॥ १ ॥
1
इत्थं पूर्वोक्तप्रकारेण सा ङ्गां सावरणां सङ्गीत मातृ कां मातङ्ग इष्ट्वा संपूज्य उपास्य इत्यर्थः । नानेन वाराहीसङ्गीतमातृकयोः अग्निं चित्वेतिवत् अङ्गाङ्गिभावः प्रतिपाद्यते, उभयोरपि ललिताऽङ्गत्वस्य प्रमाणान्तरसिद्धत्वात् । किं तु अनेन सङ्गीतमातृकायागोत्तरकालस्य वाराद्युपासनाङ्गत्वमात्रं विधीयते । सं विदः परशिवस्य या साम्राज्ञी पट्टमहिषी तद्रूपायाः, सिंहासनं राज्ञः सदसि सर्वोत्तमत्वेनावस्थितमासनं तदधिरूढाया ललिताया महारा श्या दण्ड नायिका याः यत् स्थानं महाराष्ट्रभाषया ‘“कोत्तवाल्चावडि” इति प्रसिद्धं, तदीया तत्स्वामिनी दुष्टनिग्रहाधिकारवती या तां इति फलितोऽर्थः । एतेन ललिताऽङ्गत्वं सूचितम् अप्रधानत्वात् । अस्या अधिकारं विवृणोति — दुष्ट निग्र हे त्यादिना । दुष्ट निग्रहा दौ नि र र्ग ळं अन्यानपेक्षं यदाज्ञाचक्रं आज्ञाशक्तिः तद्वतीम् । केचन सेवकाः स्वामिनमविचार्य निग्रहानुग्रहादिकं कर्तुमसमर्थाः, तथा नेयमिति भावः । एतेन श्रीललिताया अतिप्रीतिपात्रमिति ध्वनितं भवति । स म यो गुप्तः स ङ्केतः शास्त्रपद्धतिः यस्याः तां, " समयो रहसि प्रोक्तः काले कार्यक्षमेऽपि च " इति त्र्यक्षरकोशः । " सङ्केतः शास्त्र' पन्थानौ ” इति वैजयन्ती । एतेन अतिगोप्येयं विद्या इति सूचितम् । को ल वराहः, कोल : पोत्री किरिः किटिः" इत्यमरः । तस्य मुखमिव मुखं यस्याः तां विधिवत् वक्ष्यमाणविधिना । एतेन इतरदेवतोपास्तिवत् किञ्चिदङ्गलोपेन तस्मादपूर्व, तद्वारा देवताप्रीतिश्च न भविष्यति, इति सूचितम्, अन्यथा विधिवत् इत्यस्य अनुवादकत्वापत्तेः । वरिवस्ये त् पूजयेत् । इदमुत्पत्तिवाक्यम् ॥ १ ॥
""
1 विश्वकोश : श्री,
सदनं अ.