________________
सप्तमः खण्डः-वाराहीक्रमः
२४१ . लघोरपि कर्मधारयस्य त्यागः । वी र स्त्रि यं इत्यत्र वीरपदार्थश्च निर्मूलपराहतद्वैतभावः । तदुक्तं तन्त्रे
अहमि प्रळयं कुर्वन् इदमः प्रतियोगिनः ।
स वीर इति विज्ञेयः स्वात्मानन्दनिममधीः ॥ तं वीरम् । तद्र व्यं वीरद्रव्यम् । आत्मे च्छ या स्वेन्द्रियतृप्तये उ र री कुर्यात् स्वीकुर्यात् । कुल भ्रष्टैः-प्रथमं कुलमार्गमङ्गीकृत्य जन्मान्तरांहसा तत्रोत्पन्नाविश्वासाः सन्तो ये स्वीकृतं मार्ग परित्यजन्ति ते कुलभ्रष्टाः । तदुक्तं देवीभागवते--
कुलमार्ग समाश्रित्य जन्मान्तरकृतांहसा । तन्मार्ग त्यजता साकं न निष्ठेन्न च संवदेत् ।
ततो वरः पशु यः तं दृष्ट्वाऽ'पः सुसंस्पृशेत् ॥ इति ॥ न बहु वचनं प्रल पेत इति तैः साकमेव । बहुपदेन स्वमार्गगुप्तये तज्जनितानर्थपरिहारार्थ यावदर्थसंभाषी भवेत् इति ज्ञापितम् । अप्रति संभाष माणः प्रत्युत्तरमदत्वा । कुल पुस्तकानि कुलशास्त्रपुस्तकानि । शि व मित्यस्य व्याख्यानं पूर्ववत् ॥
इति . . . कल्पसूत्रवृत्तौ श्यामाक्रमो नाम षष्ठः खण्डः
सप्तमः खण्डः-वाराहीक्रमः
मातर्वाराहि जाते तव चरणसरोजार्चनं वा जपं वा ___कर्तुं शक्तो न चाहं तदपि च सदये मय्यतस्त्वां हि याचे । यस्त्वां दंष्ट्राशिताग्रां त्रिणयनलसितां चारुभूदारवक्त्रां
मूर्ति चित्ते विधत्ते तदरिगणविनाशोऽस्तु तस्मिन् क्षणे वै ॥ 'अप्सुसंविशेत्-श्री.
31