________________
२४०
परशुरामकल्पसूत्रम्
श्यामामनुजापिधर्माः अर्थतन्मनुजापिधर्मानाह
एतन्मनुजापी न कदम्बं छिन्द्यात् गिरा काळीति . न वदेत् वीणावेणुनर्तनगायनगाथागोष्ठीषु न .. पराङ्मुखो गच्छेत् गायकं न निन्द्यात् ॥ ३८॥
एत न्म नु जा पी श्यामामनुजापीत्यर्थः । एते धर्माः न जपसमकालिकाः, किं तु जपमारभ्य यावज्जीवं; " तस्मादग्निचिद्वर्षति न धावेत्" इतिवत् ॥ ३८ ॥
ललितोपासकधर्माः एवं श्यामोपासकानां धर्मानुक्त्वा प्रसङ्गात् प्राधान्याञ्च ललितोपासकधर्मानप्याह
ललितोपासको नेक्षुखण्डं भक्षयेत् न दिवा स्मरेद् वार्ताळी न जुगुप्सेत सिद्धद्रव्याणि न कुर्यात् स्त्रीषु निष्ठुरतां वीरस्त्रियं न गच्छेत् न तं हन्यात् न तद्व्यमपहरेत् नात्मेच्छया मपञ्चकमुररीकुर्यात् कुलभ्रष्टैः सह नासीत न बहु प्रलपेत योषितं संभाषमाणामप्रतिसंभाषमाणो न गच्छेत् कुल - पुस्तकानि गोपायेत् इति शिवम् ॥ ३९ ॥
इति . . . कल्पसूत्रे श्यामाक्रमोनाम षष्ठः खण्डः इक्षु ख ण्ड मित्यनेन तद्विकाराणां गुडशर्करादीनां अदोषः सूचितः । वार्ता की वाराहीम् । सिद्ध द्र व्या णि मपञ्चकरूपाणि न जुगुप्से त स्वमनसाऽपि न निन्द्यात् । नि छु र तां नासिकाच्छेदनादि । वी र स्त्रि य मिति षष्ठीतत्पुरुषः, न कर्मधारयः । तथा सति अग्रे 'न तं हन्यात् ' इत्यत्र पुंस्त्वस्यानन्वयापत्तेः । अतो बाधकसत्त्वात्