________________
षष्ठः खण्डः-श्यामाक्रमः
२३९
सुवासिनीपूजादि एवं बलिप्रदानक्रममुक्त्वा सुवासिनीपूजाऽऽदिकमुपदिशति
श्यामलां शक्तिमाहूय बालया तामभ्यर्च्य तस्या हस्त आदिमोपादिमौ दत्वा तत्त्वं शोधयित्वा तच्छेषमुररीकृत्य योग्यैः सह हविश्शेषं स्वीकुर्यात् ॥३६॥
अभ्य च्र्ये ति विशेषानुक्तेः यथाविभवम् । तत्त्वं शोध यि त्वा इत्यनेन तत्त्वशोधनमन्त्रा अपि प्राप्ताः, ते च मन्त्राश्चत्वारः प्रसिद्धाः । तैः पात्रचतुष्टयं ग्राहयित्वा चतुर्थपात्रं सशेषं ग्राहयित्वा तच्छे षं स्वयं उररी कुर्यात् । हविश्शेषप्रतिपत्तिमाह—यो ग्यै रिति । योग्यपदार्थः श्रीक्रमोक्तशिष्टपदेन व्याख्यातः । इत्थं च तस्य प्रयोजनं, तदितिकर्तव्यता, तत् सर्वमपि श्रीक्रमोक्तप्रकारेणावगन्तव्यं भवति ॥ ३६॥
श्यामापूजाऽवधि: एवं सङ्गीतमातृकापूजा कियत्कालं कर्तव्या इत्यवध्याकाङ्क्षायां तदवधिमाह
एवं नित्यसपर्यां कुर्वन् लक्षजपं जप्त्वा तदशांशक्रमेण च होमतर्पणब्राह्मणभोजनानि विदध्यात् ॥३७॥
एवं उक्तप्रकारेण नित्य स पर्यो नित्यपूजाम् । अत्र कुर्व नित्यनेन पूजनस्य ज पाङ्गत्वं गमयति । तथा हि—यदि पूजा प्रधानं जपश्चाङ्गं स्यात् तर्हि यावत्पर्यन्तं लक्षजपः तावत्पूजेति कथनं विरुध्येत । न हि अङ्गानुसारिणी प्रधानावृत्तिः लोके वेदे च दृष्टा । “ यावत् भटो धावति तावत् राजा धावति" इति न हि ब्रूते । “ यावत् राजा धावति तावत् भटो धावति" इति व्यवहारोऽस्ति । अतो जपः प्रधानं, तदवधित्वस्य पूजायां कथनात् । अत एव जपसमाप्तौ पूजानिवृत्तिः । लक्षजपं जप्त्वेति लक्षसङ्ख्याविशिष्टजपोऽनेन विधीयते । तद्द शांश क्र मे ण-हो मो जपदशांशं, तद्दशांशं तर्पणं, तदशांशं ब्राह्मण भो ज न मित्यर्थः ॥ ३७॥