SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २३८ परशुराम कल्पसूत्रम् बलिदानम् बलिदानप्रकारं दर्शयति शुद्धजलेन त्रिकोणवृत्तचतुरश्रं विधायार्धान्नपूर्णसलिलं सादिमोपादिममध्यमं सु[स] गन्धपुष्पं साधारं पात्रं निधाय ॥ ३४ ॥ शुद्ध ज ले न कलशस्थेन । अ र्धा न्नपूर्ण सलिलं यस्मिंस्तत् । आदि मं प्रथमं उपादिमं द्वितीयं मध्यमं तृतीयं एभिः सहितं सुगन्धपुष्पं यत्र ईदृशं आधार सहितं बलि पात्रं निधाय स्थापयित्वा ॥ ३४ ॥ बलिदानमन्त्रान् तदितिकर्तव्यतां च दर्शयति श्रीमातमुक्त्वा गीश्वरीमं बलिं गृह्ण गृह्ण हुं फट् स्वाहा श्रीमातमुक्त्वा गीश्वरि शरणागतं मां त्राहि त्राहि हुं फट् स्वाहा क्षेत्रपालनाथमें बलिं गृह्ण गृह्ण हुं फट् स्वाहा इति मन्त्रत्रयेण वामपाणिघातकरास्फोटसमुदञ्चितवक्त्रनाराचमुद्राभिः बलिं प्रदाय ॥ ३५ ॥ श्री मातमिति हुं फट् स्वाहेत्यन्तं परमानन्दतन्त्रे— मन्त्रत्रयम् 1 नाराच मुद्रा विमुष्टघङ्गुष्ठतर्जन्यावूर्ध्वाङ्गुष्ठाग्रतर्जनी । हस्तद्वयगता चैवं मुद्रा नाराचसंज्ञिता || इति ॥ अयमर्थः——-प्रथमं हस्तद्वये मुष्टिभावं संपाद्य तस्या निर्गते विमुष्टी ये अङ्गुष्ठतर्जन्यौ तयोर्मध्ये ऊर्ध्वाग्रमङ्गुष्ठं प्रागयां ऋजुरूपां तर्जनीं कुर्यात् । इयं नाराचमुद्रेत्यर्थः ॥ ३५ ॥ 1 य तस्मिन् पुष्पाणि विकीर्यार्धा -- श्री.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy