________________
षष्ठः खण्डः श्यामाक्रमः
श्यामाविद्याऽऽचार्य पूजा
श्रीश्यामाविद्या' प्रवर्तकाचार्यपूजां तेषां स्थानं चाह --
हंस मूर्ति पर प्रकाशपूर्णनित्यकरुणसंप्रदाय गुरूंश्चतुपूर्व रेखायामभ्यर्च्य ॥ ३१ ॥
हंस मूर्तिश्च परप्रकाशश्च पूर्णश्च नित्यश्च करुणश्च ये ते संप्रदायगुरवः तान् चतुरश्र पूर्व रेखायां उदगपवर्ग पूजयेत् इति तदर्थः । मन्त्रस्वरूपं च - हंसमूर्तिसंप्रदायगुरु श्रीपादुकां पूजयामि । एवमग्रिममंत्रेष्वपि संप्रदायगुर्विति योज्यम्, “ द्वन्द्वान्ते श्रूयमाणं प्रत्येकं सर्वत्र सम्बध्यते " इति न्यायात् ॥ ३१ ॥
गुरुपादुकापूजा
एवं चक्रपूजां समाप्य गुरुपादुकापूजामाह
स्वशिरसि सामान्यविशेषपादुके अभ्यर्चयेत् ॥ ३२ ॥
सामान्य गुरुपादुका मन्त्रः दीक्षाखण्डे प्रतिपादितः । वि शेष गुरुपादुका मन्त्रः चरमखण्डे श्यामागुरुपादुकेत्युद्धृतः । ताभ्यां मन्त्राभ्यां स्वशिर सि पादुकाद्वयं संपूजयेत् ॥ ३२ ॥
२३७
देव्याः पुनः पूजा
एवं गुरुपादुकाऽर्चनान्तं आवरणपूजामुक्त्वा प्रधानदेवतापूजापुरस्सरं बलिप्रदानं
विवृणोति ---
पुनर्देवीमभ्यर्च्य बालया षोडशोपचारान्
विधाय ॥ ३३ ॥
मूलेनेति शेषः । पुनरित्यनेन षडङ्गदेवताभ्यः प्राक् प्रधानदेव्यर्चनं ज्ञापितम् । बाल ये ति स्पष्टम् ॥ ३३ ॥
1
' प्रवर्तक पूजाssचार्य ' इति कोशेषु.