________________
परशुरामकल्पसूत्रम्
षष्ठावरणदेवतामन्त्रादीनाह
चतुर्दळे मायुक्ततङ्गीसिद्धलक्ष्मीश्च महामायुक्ततङ्गीमहासिद्धलक्ष्मीश्च ॥ २८ ॥
उभयत्र युक्तेति ज्ञेयम् । तथा च मातङ्गी महामातमीति सिद्धम् । शेषं स्पष्टम् । मातङ्गी-सिद्धलक्ष्मी-महामातङ्गी-महासिद्धलक्ष्म्यः चतस्रः पूज्याः इति विवेकः । इति षष्ठावरणम् ॥ २८ ॥
सप्तमावरणपूजामाह
गं गणपति-दुं दुर्गा-वं वटुक-क्षेत्रपालाः चतुरश्रे संपूज्याः ॥ २९॥ क्रमस्तु आमेयकोणमारभ्यैशानान्तकोणेषु । इति सप्तमावरणम् ।। २९॥
आवरणबहिर्भूतदेवतायजनम् श्रीक्रमे तन्त्रान्तरे आम्नायादिदेवतावत् आवरणबहिर्भूतदेवतायजनमाह
सां सरस्वत्यै नमः इतिप्रभृति वास्तुपतये ब्रह्मणे नमः इतिपर्यन्तं पुनस्तत्रैवाभ्यर्च्य ॥ ३०॥
तत्रै वे ति पूर्व यत्र न्यासोत्तरं पूजिताः तत्र तैरेव मन्त्रैः श्रीपादुकां पूजयामीति सहितैः । यथा सां स र स्व त्यै नमः सरस्वतीश्रीपादुकां पूजयामीति । एवमग्रेऽपि नमःपदान्ते श्रीपादुकामिति योगस्तु सूत्रे नमोऽन्तानुकरणेन सूचितः ॥
निबन्धे चतुर) अमीषां पूजनमुक्तं, तन्मन्दम् , पूर्व यत्रैकवारं पूजिताः तत्रैव पुनः पूज्या इति स्वरसतो लाभात् । लोकेऽपि-" चैनं गृहात् बहिः स्थापय, मैत्रं गृहे भोजय, चै तत्रैव भोजय" इत्युक्तौ कथमनुभवः श्रोतुः इति सूक्ष्मबुद्ध्या विचारयन्त्वार्याः ॥ ३० ॥