________________
षष्ठः खण्ड:--श्यामाक्रमः
२३५
प्रीति-कीर्ति-शान्ति-पुष्टि-तुष्टयः ॥ २५ ॥
इन्दु ना अनुस्वारेण सहिताः ये स्व र युग्मे षु अं आं इ ई उ ऊ ऋ ऋ ___लं लूं एं ऐं ओं औं अं अः इत्यष्टसु अन्त्याः आं ई ऊ ऋ लं ऐं औं अः
इत्यष्टौ वर्णाः आदौ एभिः क्रमेण युक्ता ब्रायादयः पूज्याः । मन्त्रस्वरूपं—आं ब्राह्मीश्रीपादुकां पूजयामीति । एवमग्रेऽपि । त द ग्रे इति अष्टदळाग्रे इत्यर्थः । जातावेकवचनम् । पूज्या इत्यस्यानुषङ्गः । इति तृतीयावरणम् ॥ २५ ॥
चतुर्थावरणपूजास्थानान्याहषोडशदळे वामा-ज्येष्ठा-रौद्री-शान्ति-श्रद्धा-सरस्वतीक्रियाशक्ति -लक्ष्मी-सृष्टि-मोहिनी-प्रमथिनी-आश्वासिनी - वीची - विद्युन्मालिनी - सुरानन्दा - नाग - बुद्धिकाः ॥ २६ ॥
अत्र क्रि या शक्तिः विद्युन्मा लि नी सुरा नन्दा इत्येकैका देवता । शेषाः देवताः स्पष्टाः । क्रमस्यानुक्तत्वात् देव्यग्रदळमारभ्य प्रादक्षिण्येन । इति चतुर्थावरणम् ॥ २६ ॥ पञ्चमावरणदेशादीनाह--
अष्टदळे असिताङ्ग-रुरु-चण्ड-क्रोधन- उन्मत्त - कपाल-भीषण-संहाराः सदण्डिस्वरयुग्मादिसंयुक्ता भैरवान्ताश्च भावनीयाः ॥ २७ ॥
सदण्डी त्यत्र दण्डी अनुस्वारः, “ दण्डी पञ्चदशः शून्यः' इति मेदिनीकोशात् । अनुस्वारेण सहिता ये पूर्वोक्त स्व र युग्मा द यः अं इं उं इत्यादयः आदौ तैः युक्ताः भैरवान्ताश्च ये मन्त्राः तैः पूज्याः इत्यर्थः । यथा-अं असिताङ्गभैरवश्रीपादुकां पूजयामि । एवमेवाग्रिमसप्तमन्त्राः ऊह्याः । इति पञ्चमावरणम् ॥ २७ ॥