SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २४६ परशुरामकल्पसूत्रम् निबन्धे अन्धे अन्धनि नमः हृदयाय नमः इति लेखनं तदत्यन्तमशुद्धं, अङ्गुष्ठादिकनिष्ठान्तं इति सूत्रे विद्यमाने हृदयादिप्रवेशस्य अन्धलेखतुल्यत्वात् ॥ इत्यङ्गुलीन्यासः ॥ ८ ॥ षडङ्गन्यासः अथ हृदयादिन्यासमाह - वाङ्नमो भगवतीत्यारभ्य त्रयोदशभिर्हृदयं षडुभिः शिरो दशभिः शिखां सप्तभिः सप्तभिः सप्तभिः कवचनेत्रास्त्राणि विन्यस्य ॥ ९ ॥ वागित्यारभ्य मूलमन्त्र त्र यो द शादिमवर्णैः हृन्मन्त्रसहितैः हृदये, तदग्रिमषड्वर्णैः शिरोमन्त्रसहितैः शिरसि, तदग्रिम द श वर्णैः शिखामन्त्रसहितैः शिखा यां, तदग्रिम सप्त वर्णैः कवचमन्त्रसहितैः क व चे, तदग्रिम स प्तभिः नेत्रमन्त्रसहितैः नेत्रेषु, तदग्रिम स प्त वर्णैः अस्त्रमन्त्रसहितैः अस्त्रं च विन्यसेत् । मन्त्रस्वरूपं - ऐं ग्लौं ऐं नमो भगवति वार्ताळि वार्ताळि हृदयाय नमः । एवमग्रेऽपि योज्यम् । इ हृदयादिषडङ्गन्यासः ॥ ९॥ आत्मालंकरणम् गन्धादिभिरलंकृत्य अध्यं शोधयेत् ॥ १० ॥ आदिपदेन वस्त्रभूषणादिपरिग्रहः । आत्मानमिति शेषः । अर्घ्यं शोधयेत् इत्यस्य अग्रिमसूत्रेण सहान्वयः ॥ १० ॥ अर्घ्यशोधनम् अथ अर्घ्यशोधनमाह--— आत्मनोऽग्रभागे गोमयेन विलिप्ते हेतुमिश्रितजलेन चतुरश्रं वर्तुलं षट्कोणं त्रिकोणमन्तरान्तरं
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy