________________
षष्ठः खण्डः – श्यामाक्रमः
२३३
सामान्य मन वो
,
सप्तवर्णे, तृतीयं एकादश वर्ण, चतुर्थपञ्चमौ दश वर्णौ षष्ठं अष्टाविंशति वर्णकमिति फलितम् । न केवलं मूलमन्त्रघटकोक्तसङ्ख्याकवर्णा एव मन्त्रस्वरूपं, अन्येऽपि वर्णा योज्याः इत्याह -- त्रितारी कुमारी वाचः आदौ एषां खण्डानां, जाति: हृदयाय शिरस इत्यादि, तैः सहिताः सजा तयः, नमः स्वाहावत्र डित्यादयः तैः क्रमेण युक्ताः । इत्थं च मन्त्रस्वरूपं - ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहारि हृदयाय नमः । उक्तबीजानि ऐं इत्यादीनि सप्त आदौ सर्वत्र योज्यानि । ७ सर्वमुखरञ्जिनि शिरसे स्वाहा, ७ क्लीं ह्रीं श्रीं सर्वराजवशंकरि शिखायै वषट्, ७ सर्वस्त्रीपुरुषवशंकरि कवचाय हुं, ७ सर्वदुष्टमृगवशंकरि नेत्रत्रयाय वौषट्, सर्वसत्ववशंकरि सर्वलोकवशंकरि अमुकं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं अस्त्राय फट् इति मन्त्रस्वरूपम् । यद्यपि मन्त्रे त्रयस्त्रिंशद्वर्णाः दृश्यन्ते सूत्रोक्ताष्टाविंशतिसङ्ख्या विरुध्यन्ते, तथाऽपि स्वाहाऽन्ताः सप्तविंशतिवर्णाः अग्रिमषड्बीजानि मिळित्वा श्रीषोडशाक्षर्या प्रविपञ्चदशवर्णात्मककूटये एकैककूटर ये कैकवर्णत्ववत् पण्णां वर्णानामेकवर्णत्वम् । इत्थं च अष्टाविंशतिसंख्योपपन्ना ||
७
निबन्धकारः स्वाहाऽन्तं खण्डं चकार, तथा सप्तविंशतिवर्णात्मके
उक्तगतेरप्यभावः ॥ २० ॥
आवरणपूजा
पश्चादावरणपूजां कुर्यात् ॥ २१ ॥
पश्चादितीदं सूत्र व्यर्थं इव दृश्यते, तथाऽपि न तथा मन्तव्यम् । तथा हि- इदं आवरणपूजोत्पत्तिवाक्यं, अग्रिमवाक्यानि तदितिकर्तव्यताप्रपञ्चरूपाणि, " सोमेन यजेत, " 'ऐन्द्रवायवं गृह्णाति" इतिवत् । एतेन एकविधिविहितत्वेन एकपदार्थरूपत्वात् आवरणावयवैकदेवतालोपेऽपि
(6
मध्ये
पुनः सर्वानुष्ठानं
सिद्धम् ॥ २१ ॥
अथ सर्वोपयोगिनीं कांचित् परिभाषामाह
सर्वचक्रदेवताऽर्चनानि वामकराङ्गुष्ठानामिकास
न्दष्टद्वितीयशकलगृहीतश्रीपात्रप्रथमबिन्दुसहपतितै: दक्षकराक्षतपुष्पक्षेपैः कुर्यात् ॥ २२ ॥
30
She mad
A