________________
२३२
परशुरामकल्पसूत्रम्
मध्ये हंस इति उत्तरसंस्थं लिखित्वा । इदं सर्वं पात्रस्थद्रव्ये तत्संस्काररूपं लेखनम् । इत्थं च ईदृशलेखेन द्रव्यसंस्कारं भावयेत् इति तदर्थः । दशधा - एतदनन्तरं आवर्तितमूलेनेत्यस्य विशेषणम् । धेनु योनी प्रदर्श ये तू इति धेनुमुद्रां प्रदर्श्य योनिमुद्रया प्रणमेत् । एतदर्ध्य संशोधन मिति क्वचित् पुस्तके पाठः ॥ १९ ॥
चक्रदेवीपूजा इत्थं पात्रासादनमुक्त्वा श्रीदेवताया मूर्तिकल्पनामन्त्रमाहचक्रमध्ये श्रीमातमुक्त्वा गीश्वरीमूर्तये नमः इति मूर्ति कल्पयित्वा भूयः श्रीमातमुक्त्वा गीश्वर्यमृतचैतन्यमावाहयामि इत्यावाह्य षोडशभिरुपचर्य आशुशुक्षणित्र्यक्षरक्षः प्रभञ्जनदिक्षु देव्या मौळौ परितश्च पूज्या अङ्गदेव्यः । तन्मन्त्राः सर्वजनादयः अष्टौ सप्तैकादश दश पुनर्दशाष्टाविंशतिखण्डाः त्रितारीकुमारीवागादयः सजातयः सामान्यमनुयुक्ताः ॥ २० ॥
चक्रमध्ये इति आवा ह्ये त्यनेनान्वितम् । श्री इत्यारभ्य प्रथमनम इत्यन्तः उक्त्वेत्यपहाय मूर्तिकल्पनमन्त्रः । द्वितीय श्री इत्यारभ्य आ वाहया मी त्यन्तः उक्त्वावर्जं आवाहनमन्त्रः । षोडशोपचाराः सप्रमाणं द्वितीयखण्डे दर्शिताः । आ शुशुक्षणिः अग्निः, त्र्यक्षः ईशानः, रक्षः निर्ऋतिः, प्रभञ्जनो वायुः, एषां दिक्षु उक्तक्रमेण विदिश्विति भावः । देव्या मौळौ मध्य इत्यर्थः । परितः प्रागादिदिक्षु अङ्ग देव्यः षडङ्गदेव्यः पूज्याः । तासां मन्त्रान् वक्तुं प्रक्रमते तन्मन्त्रा इति । मूलमन्त्रे सर्व ज ने त्यारभ्य षट्खण्डानि षडङ्गदेवीनां मन्त्रा बोध्याः । तत्रैकैकं कूटं कियद्वर्णकमिति जिज्ञासायामाह – अष्टा विति । सर्वजनेत्यादिषट्खण्डानि क्रमादष्टादिसङ्ख्याकानीत्यर्थः । प्रथमखण्डं अष्ट वर्ण, द्वितीयं
I