________________
२३१
षष्ठः खण्ड:-श्यामाक्रमः प्रवाहिनि सोमसूर्याग्निभक्षिणि परमाकाशभासुरे आगच्छागच्छ विश विश पात्रं प्रतिगृह्ण प्रतिगृह्ण हूं फट् स्वाहेति पुष्पाञ्जलिं विकीर्य सूर्यकळा अभ्यर्च्य
ब्रह्माण्डाखण्डसंभूतमशेषरससंभृतम् ।
आपूरितं महापात्रं पीयूषरसमावह ॥ इत्यादिममापूर्य द्वितीयं निक्षिप्य अकथादि - त्रिरेखाऽडितकोणत्रये हलक्षान मध्ये हंसं च विलिख्य मूलेन दशधा अभिमन्त्र्य चन्द्रकळा अभ्यर्च्य अग्नीशासुरवायुषु मध्ये दिक्षु षडङ्गानि विन्यस्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुयोनी प्रदर्शयेत् ॥ १९ ॥
ता भिः सामान्यायॊदकसंबन्धिनीभिःअद्भिः । ई का रा कि ते ति त्रि को णविशेषणम् । त्रिकोणमध्ये 'ईकारं लिरवेत् इति भावः । इदं न पूर्ववत् प्रवेशरीत्या निर्माणाभिप्रायकम् , किं तु निर्गमरीत्या, त्रिकोणमारभ्य चतुरश्रावसानपाठात् , त्रिकोणं सर्वान्तः चतुरश्रं सर्वस्मात् बहिरिति प्रायो दृष्टत्वात् । पूर्व व दि ति सामान्यााधारवदित्यर्थः । अग्नि क ळाः धूम्राचिरादीः अभ्य र्च्य पात्रं प्रतिष्ठाप्य इत्यत्रापि पूर्ववत् इत्यनुवर्तते, योग्यत्वात् । तेन पात्रप्रतिष्ठापने पूर्वमन्त्रलाभः । आ दि म द्विती यौ प्रोक्तौ अत्र सूत्रे, तेन नात्र तृतीयचतुर्थपञ्चमाः अनुक्तत्वात् । नहि गणपतिक्रम इव मध्यम चेतिवत् चकारोऽस्ति, अग्रे मपञ्चकमुररीकृत्येति वा लिङ्गमस्ति, येन तल्लाभो भवेत् । तस्मात् यावदुक्तम् । अश्च कश्च थश्च ते आदौ यासां ताः त्रिरेखाः । अवर्णमारभ्य विसर्गान्ता एका वर्णमयी रेखा, ततः कादितान्ता, ततः थादिसान्तेति भावः । विशेषस्यानुक्तत्वात् स्वाग्रादिप्रादक्षिण्येन । ह ळ क्षान् त्रीन् वर्णान् त्रिषु विलिख्य
1 ईकारं-अ.