________________
षष्ठः खण्डः-श्यामाक्रमः
२२५
त्रिधा सप्तधा दशधा षोडशधा वा विरच्य तेजोमयतनुः॥१०॥
एक शः एकवारम् । एवमग्रेऽपि । रे च क पूर क कुंभ कमिति द्वन्द्वसमासात् साहित्यलाभः । अत्र यद्यपि पूरकं मध्ये पतितं रेचकं प्रथमं कुंभकं चरमं इति व्युत्क्रमः, तथाऽपि नात्र क्रमे तात्पर्य, किं तु साहित्ये । क्रमस्तु पूर्वपाठानुसारेणैव । त्रिधे त्यारभ्य सङ्ख्यावृद्धौ फलाधिक्यम् । ते जो म य त नुः इत्यनेन प्राणायाम क्रियायाः पापशोधकत्वं सूचितम् ॥ १० ॥
___ षडङ्गादिन्यासपञ्चकम् अथ न्यासजालं वदति
षडङ्गं बालासहितां मातृकां मूलहृन्मुखेषु रतिप्रीतिमनोभवान् विन्यस्य ॥ ११ ॥
विन्य स्य इति सर्वत्रानुषज्य योज्यम् । तथा च षडङ्गं विन्यस्पेत्यर्थः । एतन्मन्त्रस्वरूपं उपरिष्टात् स्पष्टीकरिष्यामः । अयमेको न्यासः । बा ला स हि तां मा तृ कां विन्य स्य इति द्वितीयो न्यासः । मातृकां बहिर्मातृकाम् । न्यासस्थानानि तन्त्रान्तरादवगन्तव्यानि । अग्रे वक्ष्यमाणत्रितारीकुमारीकेवलकुमार्योर्विकल्पेन प्राप्तौ तद्बाधकं केवलबालासहितामिति विशेषणम् । तेन मातृकान्यासमन्त्रे सदा बालायोग एव, अन्यत्र विकल्पेन बालायोगः । न्यासस्थानानां बहुप्रसिद्धया नात्र लेखः । मन्त्रस्वरूपं च—ऐं क्लीं सौः अं नमः । एवमग्रेऽपि । मूलं मूलाधारस्थानम् । तदादित्रिषु र त्या दित्रयं विन्यसेत् । अयं तृतीयो न्यासः ॥ ११ ॥
मूलं सप्तदशधा खण्डयित्वा षट् ब्रह्मबिले त्रीणि ललाटे चत्वारि भ्रूमध्ये दक्षवामेक्षणयोः षट् चाष्टौ सप्तास्ये दक्षवामश्रुतिकण्ठेष्वेकैकं दक्षवामांसयोरष्टौ च दश हृदि दश दक्षवामस्तनयोरष्टावष्टौ नव नाभौ द्विः स्वाधिष्ठाने षड़ाधार एवं विन्यस्य ॥ १२ ॥