________________
२२६
परशुरामकल्पसूत्रम् खण्ड यि त्वा विभज्य । विभागप्रकारं विभक्तखण्डैः क्रियमाणन्यासस्थानानि चाह—ष डि त्या दिना । षडित्यादिसङ्ख्यावाचकानि पदानि मूलस्थवर्णपराणि । आदिमषड्वर्णान् नमोऽन्तानुच्चार्य ब्रह्मरन्ध्रे न्यसेत् । एवमग्रेऽपि । द क्ष वा मे क्षण योः षट् चाष्टा वित्यत्र दक्षनेत्रे षड्वर्णाः क्रमप्राप्ताः वामनेत्रे अष्टौ यथासंख्यं योज्यम् । एवमेव दक्ष वा मां स योः इत्यादौ द्रष्टव्यम् । सर्वत्र त्रितारीकुमारीयोगः कार्यः । स्वा धिष्ठा नं षड्दळकमलं गुह्यस्थानस्थम् । आधा रो मूलाधारः, स पूर्व व्याख्यातः । अयं चतुर्थो न्यासः ॥ १२ ॥
पञ्चममाह
पुनराधारादिब्रह्मबिलपर्यन्तं सप्तदशखण्डानुक्तस्थानेषु विन्यस्य ॥ १३ ॥
पूर्वस्माद्वैलक्षण्यं मूलाधारादिस्थानवैपरीत्यमात्रं,'न तु सप्तदशखण्डवैपरीत्यं प्रमाणाभावात् ॥
निबन्धकारः खण्डवैपरीत्यं लिलेख । तस्य प्रमाणं तदीयेच्छैव न त्वन्यत् ॥ अयं पञ्चमो न्यासः ॥ १३ ॥
मन्दिरार्चनम् एवं न्यासजालमुक्त्वा मन्दिरार्चनं वदति
अमृतोदधिमध्यरत्नद्वीपे मुक्तामालाद्यलकृतं चतुर्दारसहितं मण्डपं विचिन्त्य तस्य प्रागादिचतुर्दारेषु सां सरस्वत्यै लां लक्ष्म्यै शं शङ्खनिधये पं पद्मनिधये नमः लां इन्द्राय वज्रहस्ताय सुराधिपतये ऐरावतवाहनाय सपरिवाराय नमः रां अग्नये शक्तिहस्ताय तेजोऽधिपतये अजवाहनाय सपरि1 खण्डक्रमश्च पूर्ववत् , खण्डवैपरीत्यबोधकप्रमाणाभावात्-ब.