________________
२२४
परशुरामकल्पसूत्रम् स्व गुरु पादुका पूजां विधाय । श्यामागुरुपादुका वक्ष्यमाणा । तेन स्वमूर्ध्नि पुष्पाक्षतान् क्षिपेत् ॥ ७ ॥
ऐं ह्रः अस्त्राय फट् इत्यस्त्रमन्त्रेण अङ्गुष्ठादिकनिष्ठान्तं करतलयोः कूर्परयोः देहे च व्यापकत्वेन विन्यस्य ॥८॥
व्या प क त्व लक्षणं पूर्वमुक्तम् । अङ्गुळ्यादिभेदेन मन्त्रावृत्तिः, प्रतिप्रधानमिति न्यायात् ॥ ८ ॥
यं इति वायुं पिङ्गळयाऽऽकृष्य देहमुपविशोष्य रं इति वायुमाकृष्य देहं दग्ध्वा वं इति वायुमाकृष्यामृतेन दग्धदेहभस्म सिक्त्वा लं इति वायुमाकृष्य दृढं विधाय हंस इति वायुमाकृष्य शिवचैतन्यमुत्पाद्य ॥ ९॥
यं इत्यस्य विशो ष्य इत्यनेनान्वयः, वायुबीजत्वे शोषणकार्यक्षमत्वात् । शोषणं नाम जलांशस्याकर्षणम् । वाय्वाकर्षणं तु तूष्णीमेव । इडापिङ्गळे नारदीये निरूपिते
पिङ्गळा वामनासा स्यादिडा तदितरा स्मृता ॥ इति ॥ रं इति वह्निबीजेन देह दाहः । अमृ ते न अमृतबीजेन वं इत्यनेन द ग्ध भ स्म से च नं पुनः शरीरोत्पादनार्थम् । लं इति पार्थिवबीजेन सिक्तभस्मनि काठिन्यसंपादनम् । ततः तस्मिन् हंस इति मन्त्रेण शिव चैतन्य संपादनम् ॥ एतावत्पर्यन्तं भूतशुद्धिं विधाय श्रीक्रमोक्तां प्राणप्रतिष्ठां च कुर्यात् ॥ ९ ॥
मूलमेकश उच्चार्य वायुमाकृष्य त्रिशः उच्चार्य कुंभयित्वा सकृदुच्चार्य रेचयेत् । एवं रेचकपूरककुंभकं