________________
षष्ठः खण्ड:-श्यामाक्रमः
सन्ध्यामितीदमुत्पत्तिवाक्यं, अत्र कथंभावाकाङ्क्षायामाह—स वितृ म ण्ड ल इत्यारभ्य सन्तप्र्ये त्यन्तेन । तर्पणमपि मूल मुच्चार्य श्रीश्यामां तर्पयामि स्वाहा इति मन्त्रेण । मालिनीतन्त्रे तर्पणमन्त्रोद्धारस्य-" मूलान्ते मालिनी प्रोच्य तर्पयाम्यमिवल्लभा” इति लेखात् । प्रकृते मन्त्रस्यानुक्तत्वात् मन्त्राकांक्षायाः तन्त्रान्तरस्थमन्त्रादरः । यथा शक्ति इत्यनेन सङ्ख्यायाः तर्पणवृत्तेरनङ्गत्वं सूचितम् ॥
अत्र निबन्धकारः एतदन्तमाह्निकं स्वतन्त्रोपास्तौ पुरश्चरणकाले च, न तु श्रीक्रमाङ्गत्वेन सहानुष्ठाने इति जगौ। तन्न । पूर्वोक्तलौकिकन्यायदृष्टान्तेन ललितोपास्तेः पूर्व श्यामोपास्तिः सिध्यति । तदनुष्ठानमर्यादा लक्षजपपर्यन्तमिति अग्रिमवाक्येन व्यवस्थितम् । इत्थं च “ सङ्गीतमातृकामिष्टा संवित्साम्राज्ञी (इत्यादि) कोलमुखी वरिवस्येत” इत्यग्रिमसूत्रे क्त्वाप्रत्ययेन वाराघुपास्तिपूर्ववृत्तित्वं स्पष्टम् । इत्थं सति कोलमुखीवरिवस्यापूर्वकालसंबन्धिनी या श्यामावरिवस्या जपश्च स सर्वोऽपि श्रीललिताक्रमारम्भाङ्गभूतः, नान्यो ललिताक्रमेण सह अनुष्टीयमानः श्यामाक्रमगन्धोऽपि सूत्रे प्रतीयते । एवं सति पुरश्चरणादिकाले आह्निकं अन्यत्र नेति किं प्रमाणमनुसृत्य लिलेख । तदभिप्रायं स एव जानाति । वस्तुतो ललिताप्रयोगानङ्गभूतश्यामाक्रमः सूत्रे अप्रसिद्धः । अङ्गभूतक्रममुद्दिश्याह्निकपाठात् अङ्गभूतेऽपि क्रमे सर्वमाह्निकं निश्शङ्क प्रवर्तत एव ॥ ५॥
यागगृहप्रवेशादि प्राणायामान्तं कृत्यम् सन्ध्यामुक्त्वा पूजां वक्तुमारभते
यागगृहं प्रविश्यासने आधारशक्तिकमलासनाय नम इत्युपविश्य ॥ ६॥ अथ प्राणायामप्रकारमाह
समस्तप्रकटगुप्तसिद्धयोगिनी'चक्रश्रीपादुकाभ्यो नम इति शिरस्यञ्जलिमाधाय स्वगुरुपादुकापूजाँच विधाय ॥७॥ 'चक्र' इति नास्ति-अ.
2 गणपतिपूजां च-श्री.