________________
२२०
परशुरामकल्पसूत्र या ईदृशी त स्याः प्रधान स चि व पदं—अत्र सचिवपदं साचिव्यरूपधर्मपरं तस्य पदं आश्रयः श्या मे ति । तस्याः यः क्रमः तस्य या वि मृ ष्टिः अनुसरणं तत् सदा कार्य म् । अत्र सदेत्यनेन यावज्जीवं प्राप्तौ यथा अग्निहोत्रविधेः यावज्जीवं प्राप्तौ " सायं जुहोति प्रातर्जुहोति" इति वाक्यान्तरेण सङ्कोचः, तथा अस्या एव श्यामायाः प्रकरणे अग्रे “ एवं नित्यसपर्या कुर्वन् लक्षजपं जप्त्वा" इति वाक्येन लक्षजपपर्यन्तं सकृत्पूजा कार्या न तु तदुत्तरमिति संकोचः ॥
श्यामाया उपास्यतोपपत्तिः ननु या साम्राज्ञी सर्वनियन्त्री स्वतन्त्रा तां परित्यज्य किं तदनुवर्तिन्याः श्यामायाः उपासनेनेत्याशङ्कायां तदुपासनामुपपादयिष्यन् प्रथमं लोकदृष्टान्तेन दृढयति
प्रधानद्वारा राजप्रसादनं हि न्याय्यम् ॥ २॥
लोके राजदर्शनोत्सुकाः आदौ प्रधानमुपसेव्य तद्वारा राजदर्शनं गृह्णन्ति । तेन फलं सत्वरं अनायासेन भवतीति दृष्टं लोके । तद्वदत्रापि प्रथमं तत्प्रधा न भूतायाः श्यामायाः प्रथममुपासनं न्याय्यमिति भावः । द्वारे त्यनेन प्रधानोपासनपूर्ववृत्तित्वं सूचितं, न्या य्यं इत्यनेन अत्यन्तमनावश्यकताऽपि सूचिता । परं तु यः कोऽपि समर्थः सचिवादीननादृत्य स्वयमेव राजकृपां संपाद्य तस्मात् फलं संपादयतीत्ययमपि पक्षो लोके क्वचिदस्ति । तथाऽपि प्रधानद्वारा राज प्रसाद नं न्या य्यं वरमित्यर्थः । अयं भावः----यश्च प्रधानदेवताकृपां साक्षात् संपादयितुमसमर्थः स प्रथमं दीक्षां संपाद्य श्रीगणपत्युपास्ति कृत्वा ततः श्यामोपास्ति वाराघुपास्ति परोपास्ति च विधाय तासां कृपां संपाद्य पश्चात् श्रीललितोपास्ति आरभेत् । समर्थस्तु दीक्षोत्तरं गणपत्युपास्त्यनन्तरं श्रीललिताक्रममारभेत् । “अतिरात्रे षोडशिनं गृह्णाति," "नातिरात्रे षोडशिनं गृह्णाति," इतिवद्विकल्पः इति तत्त्वम् । फलाधिक्यकामः उक्तक्रमण ललितोपास्ति कुर्यात् । न्यूनफलकामः गणपत्युपास्त्यनन्तरं ललितोपास्ति कुर्यात् इति व्यवस्था ॥ २ ॥