________________
षष्ठः खण्डः-श्यामाक्रमः
२१२
शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते ॥ इति ॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ इति श्रुतिश्च । "नेति नेति" इति सर्वनिषेधशेषत्वेनैव तस्य ज्ञेयत्वात् केवलशिवविषयकज्ञानस्योपासनादिकर्मविरोधित्वेन तादृशचरमवृत्तेरुपासनासाध्यत्वात् केवलशिवस्त्वनुपास्यः । तदुक्तं देवीभागवतेऽपि
शिवोऽपि शवतां यातः कुण्डलिन्या विवर्जितः ॥ इति ॥ योगिनीतन्त्रेऽपि
यज्ज्ञानेऽपि महादेवि शर्म वर्म न किंचन ॥ इति ॥ किं च यथाकथंचित् वलयाकारेण मनसः निराकारग्रहणार्थं प्रेरणेऽपि शुभाशुभधर्महीनत्वात् क्षणमात्रमपि न स्थातुमर्हति । तदुक्तं श्रीभगवद्गीतायाम्
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ॥ इति ॥ अतस्तस्यैव मनसः स्थैर्यार्थ किञ्चिद्रूपं कल्पनीयम् । यच्च परब्रह्मणि कल्पितं रूपं नामधामसहितं तदेव शक्तिपदवाच्यम् । तदप्युक्तं भागवते
एवं सर्वगता शक्तिः सा ब्रह्मेति विविच्यते । सगुणा निर्गुणा चेति द्विधोक्ता सा मनीषिभिः ॥ सगुणा रागिभिः सेव्या निर्गुणा तु विरागिभिः । धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला ॥
ददाति वाञ्छिताननर्चिता विधिपूर्वकम् ॥ इति ॥ एवमुक्तप्रमाणयुक्तिकलापैः उपास्या परा शक्तिः । परशिवश्च निर्गुणः । तद्विषयिणी वृत्तिस्तु परमपुरुषार्थरूपत्वात् अम्बोपासनासाध्येत्युपपन्नं सिंहासनेश्वरीत्वं, साम्राज्ञी त्वम् ॥
निर्गुण एव शिवः यो " बहु स्यां प्रजायेय" इति इच्छाशक्त्या युक्तः सृष्टयुन्मुखः स एव शक्तिपदवाच्यः, शिव एव शक्तिरूपेणोपास्यश्चेति तत्त्वमवगन्तव्यम् ॥