________________
२१८
परशुरामकल्पसूत्रम्
शक्तिः करोति ब्रह्माण्डं सा वै पालयतेऽखिलम् । इच्छया संहरत्येषा जगदेतच्चराचरम् ॥ न विष्णुर्न हरः शक्रो न ब्रह्मा न च पावकः । न सूर्यो वरुणः शक्ताः स्वे स्वे कार्ये कथंचन ॥ तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः । कारणं 'सैव कार्येषु प्रत्यक्षेणावगम्यते ॥ वस्तुजालं शक्ति हीनं शक्तं कर्तुं न किञ्चन ।
शक्तं तु परमेशानि शक्त्या युक्तं यदा भवेत् ॥ इति बहुविस्तरेण । आगोपालाङ्गनमा च पण्डितं इदं कार्य कर्तुं मम शक्तिरस्ति मम शक्तिर्नास्ति इति व्यवहरन्त्यविवादेन । तस्मात् बहुप्रमाणसिद्धा शक्तिः तन्निर्वाह्यं जगदपि शिवकुक्षौ सदा सूक्ष्मरूपेणास्त्येव ॥
अथवा चितो या शक्तिः तत्परिणामरूपं जगत् । तदुक्तं वासिष्ठे
चिद्विलासः प्रपञ्चोऽयं सखे ते दुःखदः कथम् ॥ इति । एतेन चिच्छक्त्योः ईषद्भेदाङ्गीकारात् चितो निर्विकारत्वबोधकश्रुतिरविरुद्धा, अत्यन्तभेदानङ्गीकारात् अद्वैतप्रतिपादकश्रुतयोऽप्यबाधिताः । एतादृशी शक्तिः वस्तुमात्रे अनुभूयते कार्योत्पत्त्यनन्तरं न ततः प्राक् । अमुमेवार्थ भूतपञ्चकविवेके श्रीविद्यारण्यस्वामिचरणा अप्याहुः
निस्तत्त्वा कार्यगम्याऽस्य शक्तिर्मायाऽमिशक्तिवत् ।
न हि शक्तिं क्वचित् कश्चित् बुध्यते कार्यतः पुरा ॥ इति ॥ एवं शिवनिष्ठायां तदभिन्नायां तद्धर्मरूपायां तन्निष्ठकर्तृत्वनिर्वाहिकायां सिद्धायां सैवोपास्या। न चिद्रूपः शिवः, तस्यानुपास्यत्वात् । उपासना नाम उपास्यनिष्ठगुणनामकीर्तनम् । शक्तिरहिते केवले गुणाभावात् निर्गुणस्य ध्यानस्तुतिकीर्तनादि कथं भवेत् । तदुक्तं योगिनीतन्त्रे1 नैव-श्री.
" हीन:-श्री. ३ स च ते-श्री.