________________
षष्ठः खण्डः-श्यामाक्रमः
२१७
इयं मायातो विलक्षणा चिद्रूपा, न जडस्वभावा । तदुक्तं सूतसंहितायाम्--
सदाकारा परानन्दा संसारोच्छेदकारिणी । सा शिवा परमा देवी शिवाभिन्ना शिवकरी ।
शिवाभिन्ना तया हीनः शिवोऽपि हि निरर्थकः ॥ इति ॥
ननु—मुख्यं शिवे सृष्टयादिकर्तृत्वं, तन्निर्वाहकत्वमात्रं यदि शक्तेः, तर्हि मुख्यजगत्कर्तृत्वनियन्तृत्वादि शिवनिष्ठम् । इयं च सहकारिणी । तथा सति मुख्यत्वात् शिव एवोपास्यः न शक्तिः इति चेत्-शृणु । क्षित्यादिकार्यजातं कारणमन्तरेणानुपपन्नं इत्यनुपपत्त्यैव हि शिवस्य शक्तेर्वा कल्पनम् । न हि चर्मचक्षुषा शक्तिं शिवं वा पश्यामः । एवं कल्पयितुमारम्भे अत्र वेदान्तिन:--परस्य चिद्रूपस्य ब्रह्मणः धर्मो माया, सैवाविद्या जडस्वभावा, सैव जगदुपादानं, परं ब्रह्म तु विवर्तोपादानं, अत एव जडोपादानत्वात् जगदपि जडस्वभावं, मायोपादानत्वात् मिथ्यात्वं च-इति प्राहुः । तं पक्षं तान्त्रिकाः न क्षमन्ते । तथा हि, या मायाऽविद्येत्युच्यते सा चिद्धर्मोऽन्यधर्मों वा ; आये धर्मधर्मिणोरभेदस्य वेदान्तिनामप्यनुमतत्वेन चिद्धर्मस्य जडत्वानुपपत्तिः । अचिद्धर्मत्वे अद्वैतहानिः, “ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' इति प्रमाणविरोधश्च । अतः गत्यभावात् सा माया चिद्धर्म इत्यवश्यं वाच्यम् । तथा सति तस्या जडत्वं दूरतो निरस्तम् । न च चिदतिरिक्ता शक्तिः नास्ति इति वाच्यम् । वयमपि तमेवार्थ ब्रूमः । परं तु पृथिवीव्यतिरिक्तगन्धाभावेऽपि धर्मो धर्मी इति व्यवहारानुरोधेन ईषद्भेदः कल्प्यते, एवं द्वयोः चिद्रूपत्वेऽपि ईषद्भेदो व्यवहारार्थ कल्प्यः । एवं च जगदुपादानत्वं द्वयोरपि न संभवति, जडस्वभावत्वात् जगतः । न हि प्रकाशात् तमो भवितुमर्हति । अतः चिति जगत् सूक्ष्मरूपेण बीजे वटवृक्षवत् सर्वदा अस्त्येव । तदवयवशैथिल्यपूर्वकविस्तारसङ्कोचकर्तृत्वमेव चिति, न तु तदुपादानत्वं, यथा वणिजः प्रभाते क्रय्यवस्तूनां प्रसारणं रात्रौ सङ्कोचः तादृशं कर्तत्वं चितः । तत्सहकारिणी चिच्छक्तिः ॥
ननु चिदतिरिक्ता ईषद्मेदवती तन्निष्ठकर्तृत्वनिर्वाहिका शक्तिः किमित्यङ्गीक्रियते चित्येव तत्कर्तृत्वमास्ताम् । अन्यथा तुल्ययुक्त्या कुलालादिष्वपि घटकर्तृत्वाश्रया एका शक्तिः सिध्येत इति चेत्न , श्रुतिस्मृतिलोकव्यवहाराणां सत्त्वात् । "पराऽस्य शक्तिर्विविधैव श्रूयते " इति श्रुतिः । देवीभागवतेऽपि
28