________________
२१६
परशुरामकल्पसूत्रम्
षष्ठः खण्ड:-श्यामाक्रमः
श्यामे सङ्गीतमातः परशिवनिलये मुख्यसाचिव्यभारो
द्वाहे दक्षे दयापूरितनिजहृदये मामकी दैन्यवृत्तिम् । श्रीमत्सिंहासनेश्यां भववनपतितान् दावदग्धान्नमस्ते त्रातुं पीयूषवषैः कथय परिकरं बद्धवत्यां विविक्ते ॥
श्यामोपास्तिविधिः श्रीभगवान् परशुरामः श्यामाक्रमविवक्षुः तस्यामुपासकानामुपास्यत्वज्ञानोत्पत्तये, अङ्गीकृतश्रीविद्योपासनस्य " यो वै स्वां देवतामतियजते प्रस्वायै देवतायै च्यवते न परां प्रामोति पापीयान् भवति" इति श्रुत्या स्वीकृतैकदेवतोपास्तेरन्यदेवतोपासनमनिष्टजनकमिति यत् प्रतिपादितं, तेन कलुषितचेतसां कालुष्यनिवृत्तये च, आदौ तद्गुणस्वरूपं वर्णयति
इयमेव महती विद्या सिंहासनेश्वरी साम्राज्ञी तस्याः प्रधानसचिवपदं श्यामा तत्क्रमविमृष्टिः सदा कार्या ॥१॥
पराशक्तेः स्वरूपं उपास्यत्वं च इयं वक्ष्यमाणा । इयमित्युत्तरं येति शेषः । या म ह ती निरवधिकमहत्त्ववती सिंहा सनं परशिवः स्वाधिष्ठानरूपत्वात् , तस्य ईश्वरी तन्निष्ठसृष्टिस्थितितिरोधानसङ्कल्पनिर्वाहक: । तदुक्तं शङ्करभगवत्पादैः
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ॥ इति ॥ अगस्त्यसंहितायामपि विद्यावतीस्तुतौ--
यया देव्या विरहितः शिवोऽपि हि निरर्थकः । नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गळमूर्तये ॥ इति ॥