________________
पञ्चमः खण्डः-ललितानवावरणपूजा
२१५
इत्थं च इदानीन्तनानां 'अतिजितेन्द्रियाणामपि आरम्भोल्लासपर्यन्तानुधावनमेव युक्तम् । अत एवोक्तं तन्त्रे -
अशक्ताबुधबालानामारम्भः परिकीर्तितः ॥ आरम्भोल्लासलक्षणं तत्रैव
यस्य यावत्पात्रमुक्तमारम्भस्तस्य तावता ॥ इति ॥ प्रसक्तानुप्रसक्ते अलं पल्लवितेन । इतः शेषमग्रे उल्लासविलासे चरमखण्डे वक्ष्यामः ॥ २२ ॥
देवीविसर्जनम् खेचरी बवा क्षमस्वेति विसृज्य तामात्मनि संयोजयेत् इति शिवम् ॥ २३ ॥
इति . . . कल्पसूत्रे ललितानवावरणपूजा नाम पञ्चमः खण्डः खेचरी बद्धा, बन्धनानन्तरं
ज्ञानतोऽज्ञानतो वाऽपि यद्यदाचरितं शिवे ।
तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ॥ इति क्षमाप्य वि स जे त् । विसर्गो नाम पूजार्थमाहूतायाः पुनः स्वस्थानं प्रति नयनम् । आत्म नि हृत्कमले यो ज ये त् स्थापयेत् । शि व मिति प्रकरणसमाप्तिद्योतकम् ॥
इति . . . कल्पसूत्रवृत्तौ श्रीललितानवावरणपूजा नाम पञ्चमःखण्ड:
1 अजितेन्द्रियाणामार-श्री.