________________
२१४
परशुरामकल्पसूत्रम् ईदृशो यः पूर्णाभिषिक्तः स एव पूर्णारूढः, तस्यैव आगळान्तमिति विधानम् । एव अमृतारहस्ये
ब्रह्मज्ञानी सुरां पीत्वा कुलाचारे चरन् मुहुः । भूमौ पतति तस्याङ्गे लगन्ति यदि रेणवः ।
तावत्कालं रेणुसङ्ख्यं ब्रह्मलोके स मोदते ॥ इति वचने ब्रह्मज्ञानीति समष्टिशब्देन कुलार्णवोदितं विशिष्टार्थमाह । इदानीन्द तन्त्रार्थमजानन्तो रागान्धाः स्वाधिकार अविचार्य पीत्वापीत्वेति तन्त्रवचन लोकानां दर्शयित्वा स्वयं यथेच्छाऽऽचारं कुर्वन्तः परेषां बुद्धिमपि तिरोदधिरे यावच्चन्द्रदिवाकरौ तावन्नरकयातनामुपलभेयुः । अत्र प्रमाणं परमानन्दतन्त्रे
यावन्न चलते दृष्टिावन्न चलते मनः । तावत्पानं प्रकुर्वीत पशुपानमतः परम् ॥ यावन्नेन्द्रियवैकल्यं यावन्न मुखवैकृतिः ।
तावदेव पिबेत् द्रव्यमन्यथा पतनं भवेत् ॥ इति ॥ यथा साधकः स्वयोग्यताऽनुसारेण द्रव्यं स्वीकुर्यात् , एवमाचार्योऽपि योग्यतां : पात्रं दद्यात् । तदुक्तं कुमारीतन्त्रे
कौलिके पात्रमधिकं प्रयच्छत्यविचारयन् ।
तदीयमधिकारं सः सह तेनैव मज्जति ॥ इति ॥ तत्रैव
पानमेकप्रयत्नेन यावद्र्व्यस्य वै भवेत् ।
तदारम्भे भवेत् पात्रं न न्यूनं नाधिकं शिवे ॥ इति ॥ पानपात्रमानं नीलातन्त्रे । एकप्रयत्नसाध्यपानसाधनद्रव्यमानं पात्रं भवति तदर्थः । किं च तन्त्रान्तरे
उल्लासभेदमज्ञात्वा प्राप्य मूढत्वमम्बिके । जिह्वालोलुपभावेन चेन्द्रियप्रीणनाय च । यः पिबेत्तं तु तामिस्र मातृकाः पातयन्ति वै ॥ इति ॥