________________
२१३
पञ्चमः खण्डः-ललितानवावरणपूजा दीक्षाहीनस्य चोच्छिष्टं जनकस्यापि दीक्षितः ।
न भक्षयेत् सकृद्वाऽपि भुक्त्वा पातित्यमाप्नुयात् ॥ इति ॥ अथ प्रसङ्गात् केन कियद्व्यसेवनं कार्य तद्विविच्यते । तत्र बालोपास्तौ त्रिपात्रं, पञ्चदशीमन्त्रोपदेशवतः चतुष्पात्रं, षोडश्यादिदीक्षावतः पञ्चपात्रम् । तदुक्तं परमानन्दतन्त्रे
सौभाग्यतोपासकस्य चतुस्तत्त्वं भवेच्छिवे । बालाद्युपासकानां तु तत्पूजोक्तविधानतः ॥ तेषां तु तत्त्वत्रितयं अन्यत् सर्व समं भवेत् ॥ इति ॥ दीक्षावतां पूर्णपात्रं पञ्चमं तु भवेच्छिवे । हुत्वा शिवाग्नौ क्रमशः त्रिचतुःपञ्चपात्रकम् ॥ इति ।
पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले । उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते ॥ आनन्दात् तृप्यते देवी मूर्च्छया भैरवः स्वयम् ।
वमनात् सर्वदेवास्तु तस्मात् त्रितयमाचरेत् ॥ इत्यादिकुलार्णवप्रभृतितन्त्रेप्वनियतपानस्योक्तत्वात् कथं पात्रनियम इति चेत्-शृणु शास्त्राभिप्रायं अज्ञस्तत्त्वबुभुत्सुश्चेत् । पीत्वा पीत्वेति लिखितवचनं “आगळान्तं पिबेत् द्रव्यं स मुक्तो नात्र संशयः" इत्यादिकुलार्णववचनं यथेच्छयाऽनुरूपं न सर्वेषां, किं तु पूर्णारूढानाम् । अत एव कुलार्णवे "आगळान्तं" इत्यस्याव्यवहितप्राक् " पूर्णाभिषेकयुक्तानां पानं देवि निगद्यते” इति प्रतिज्ञाय “आगळान्तं पिबेत् द्रव्यं" इत्यादिवचनानि लिखितानि । पूर्णाभिषेकलक्षणमपि तत्रैव कुलार्णवे--
यो निन्दास्तुतिशीतोष्णसुखदुःखादिसंभवे । समः सर्वत्र योगीशो हर्षामर्षविवर्जितः ॥ इत्यादिना, तत्त्वत्रयश्रीचरणमूलमन्त्रार्थतत्त्ववित् । देवतागुरुभक्तश्च शांभवीमुद्रयाऽन्वितः ॥ स च पूर्णाभिषिक्तः स्यात् कौलिको न तु दीक्षया ॥ इति ॥