________________
२१२
परशुरामकल्पसूत्रम् . त्रिपुरार्णवेऽपि
अयं सर्वोत्तमो धर्मः कौलमार्गो महेश्वरि । असिधाराव्रतसमो मनोनिश्चलहेतुकः ॥ तत्र संयतचित्तत्वं सर्वथा ह्यतिदुष्करम् ।
भक्तिश्रद्धाविहीनस्य . . . . . . . ॥ इत्येवमादीनि तन्त्रवचनानि, द्रव्यसेवनं मनोनिग्रहद्वारा ध्यानार्थ कर्तव्यं विपरीते बाधत इति, कोटिशः उपलभ्यन्ते । एवमादितन्त्रवचनार्थानां सङ्ग्रहं कुर्वन्नेव श्रीपरशुरामः “शिष्टैः सह" इत्युवाच । ईदृशध्यानसमर्थो व्रतादिदिवसेप्वपि अविचारेण अनादृतोऽपि मण्डलं प्रविश्य पात्रं याचित्वा हुत्वा ध्यानं संपादयेत् । तदुक्तं त्रिपुरार्णवे
एवं सामयिको भक्त्या मानदम्भविवर्जितः । अनाहूतोऽपि वाऽऽहूतो व्रजेन्मण्डलमुत्तमम् ॥ व्रती वाऽपि हुनेदेव न दोषस्तत्र विद्यते । व्रतादिशङ्कया यस्तु न व्रजेदादृतोऽपि सन् । व्रतं तस्य प्रतिहतमनर्थं च समाप्नुयात् ।
तस्मात् कनिष्ठाहूतोऽपि प्रविशेदेव मण्डले ॥ इति ॥ अत्र ज्येष्ठत्वं कनिष्ठत्वं च विप्राणां दीक्षापूर्वापरभावेन ज्ञेयम् । तदुक्तं रुद्रयामळे
बालोऽपि दीक्षितः पूर्व ज्येष्ठः स तु कुलागमे ॥ इति ॥ द्विजोऽपि दीक्षितः पश्चादन्त्यजः पूर्वदीक्षितः ।
द्विजः कनिष्ठः स ज्येष्ठ इति शास्त्रविनिश्चयः ॥ इति ॥ तत्रैव वचनात् क्षत्रियादीनां पश्चात् दीक्षितोऽपि द्विज एव ज्येष्ठः । क्वचिदुच्छिष्टग्रहणे । योनिसंबन्धादपि ज्येष्ठत्वं प्रतिपादयति । तदुक्तं त्रिपुरार्णवे
विद्यासंबन्धतो वाऽपि योनिसंबन्धतस्तथा ।
ज्येष्ठानामपि चोच्छिष्टं दीक्षितानां च भक्षयेत् ॥ इति ॥ 'अनाहतोऽप्यनाहृतो--श्री.
INTER