SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ पञ्चमः खण्डः-ललितानवावरणपूजा २११ कुलार्णवेऽपि तन्मैरेयं शिवं पीत्वा यो न विक्रियते नरः। १ . जपन् शिवपरो भूत्वा स मुक्तः स च कौलिकः ॥ इति ॥ परमानन्दतन्त्रेऽपि-. स्वीकृत्य तत्प्रसादं वै ध्यायेन्निश्चलमम्बिकाम् ॥ इति ॥ वीरचूडामणौ गणेश्वरसंहितायाम् द्रव्यमास्वाद्य विधिना मनो निश्चलतां नयेत् । ... ततो ध्यायेत् परं ज्योतिरात्मज्योतिः सनातनम् ॥ . इत्यादिमनोनिग्रहपूर्वकध्यानविधायकवचनानि बहूनि । यावत्सुषुप्तता न स्यादविकारित्वमेव च । तावदेव हुनेत् देवि निष्फलं त्वन्यथा भवेत् ॥ इति ॥ विकारे तु समुत्पन्ने ध्यानयोगबहिष्कृतः । योगिनीनां पशुर्देवि मण्डलाच्च बहिष्कृतः ॥ इत्यधिकपात्रहोमे ध्यानभ्रंशमूलानर्थोऽपि तन्त्रे । तेनापि ध्यानावश्यकता सिध्यति । एवमादीनि बहूनि सन्ति । ग्रन्थविस्तरभयान्नेह लिखितमेतावदलमिति ॥ . . इत्थं च द्रव्यसेवनस्य प्रथमफलं चित्तैकाग्र्यं, तेन विना ध्यानासंभवात् । अत एव परमानन्दतन्त्रे तावदेव हुनेत् देवि यावदानन्दसंप्लुतः । मनो निश्चलतां याति चित्तं चापि प्रसादताम् ॥ विकारे तु समुत्पन्ने ध्यानयोगविहीनतः। योगिनीनां पशुर्देवि मण्डलाच्च बहिष्कृतः ॥ ___ इति अयोग्यस्य द्रव्यस्वीकारे अनिष्टं फलं दर्शयति । योगिनीतन्त्रेऽपि कुलद्रव्यं समाश्रित्य मनो निश्चलतां नयेत् ॥ इति ॥... .. .. ..
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy