________________
१.०
... . परशुरामकल्पसूत्रम् असंस्कृतः पशुः प्रोक्तो विप्राणामाद्य एव तु। .... :
अपशुः क्षत्रियविशां शूद्राणां त्रितयं भवेत् ॥ इति ॥ .. कुलार्णवेऽपि--
'भुक्तिमुक्तिप्रदं दिव्यं वीरं भुक्तिप्रदं भवेत् ॥ इति ॥ रहस्यार्णवेऽपि
संपूज्यैवं विधानेन विप्रश्चोद्वासनावधि । द्रव्यं पिबेत् तदन्तेऽपि क्षत्रियो वैश्य एव च ॥ शूद्रस्त्विच्छाऽनुरोधेन विधिना वाऽन्यथाऽपि वा ।
निवेद्य देवतायै तत् संतM प्रपिबेदनु ॥ इति ॥ एतावन्तः अत्यावश्यकधर्माः निरूपिताः । इतोऽधिका अनेकतन्त्रावलोकनेन ज्ञेयाः ।। ग्रन्थविस्तरभयान्नेह लिख्यन्ते ॥
अत्र सामयिकानां कल्पसूत्रानुयायिनां अन्येषां उक्ताः मण्डलधर्माः तुल्याः । होममन्त्रः सूत्रानुयायिनां “आर्द्र ज्वलति" इति मन्त्र ऐव, मन्त्राकाङ्क्षायां तन्त्रान्तरमन्त्रात् अस्य सन्निकृष्टत्वात् । अन्येषां स्वस्वतन्त्रोक्ता सरणिः । अत्रेयं व्यवस्था चिन्त्यते । पीठाधिकारिणा स्वकर्तृकपूजाफलसिद्धये प्रतिपत्तिसंस्कारस्य अवश्यमनुष्ठेयतया स मण्डले ध्यानसमर्थोऽसमर्थो वा कामं द्रव्यस्वीकारं करोतु । सामयिकस्तु द्रव्यहोमानन्तरं शास्त्रोक्तध्यानसमर्थ एव द्रव्यं हुनेत् । नान्यः। तथा हि
अन्तर्निरन्तरमनिन्धनमेधमाने मोहान्धकारपरिपन्थिनि संविदग्नौ । कस्मिंश्चिदद्भुतमरीचिविकासमाने विश्वं जुहोमि वसुधाऽऽदिशिवावसानम् ॥ धर्माधर्महविर्दीप्तावात्मानौ मनसा खुर्चा ।
सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ।। इति मन्त्रलिङ्गेन कल्पितो ध्यानप्रकार आवश्यकः । देवीयामळेऽपि
होमेन चेतनां जित्वा ध्यायेदात्मानमात्मना ॥ इति ॥ मुक्तिप्रदं भवेद्दिव्यं-श्री.