SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ षष्ठः खण्डः--श्यामाक्रमः २२१ · प्रात:कृत्यं संध्याऽन्तम् एवमुपास्त्यधिकारिणं प्रदर्य उपास्तिप्रकरणं वक्तुं प्रक्रमते ब्राह्मे मुहूर्ते चोत्थाय शयने स्थित्वैव श्रीपादुकां प्रणम्य प्राणानायम्य मूलादिद्वादशान्तपर्यन्तं ज्वलन्तीं परसंविदं विचिन्त्य मनसा मूलं त्रिशो जत्वा बहिर्निर्गत्य विमुक्तमलमूत्रो दन्तधावनजिह्वाघर्षणकफविमोचननासाशोधनविंशतिगण्डूषान् विधाय ॥३॥ श्री पादुकां गुरुपादुकाम् । प्राणा निति, प्राणायामलक्षणमुक्तं सनत्कुमारतन्त्रे प्राणायामत्रयं कुर्यात् मूलेन प्रणवेन वा । अथवा मन्त्रबीजेन यथोक्तविधिना सुधीः ॥ पूरयेत् षोडशभिर्वायुं कुंभयेच्च चतुर्गुणैः । रेचयेत् कुंभकार्थेन अशक्तस्तत्तुरीयतः ॥ तदशक्तौ तच्चतुर्थैः स्यादेवं प्राणसंयमः । प्राणायाम विना नैव पूजनादिषु योग्यता ॥ इति ॥ समयाङ्कमातृकायाम् इडया पूरयेद्वायुं सकृद्वै मूलविद्यया । मध्यनाड्या कुंभयेच्च वेदसंख्या वरानने ॥ नेत्रसंख्याक्रमेणैव रेचयेत् पिङ्गळाऽध्वना । पुनः पुनः क्रमेणैव यथा वारत्रयं भवेत् ॥ इति ॥ दन्त धा व ना दीनां स्मृतिप्राप्तानामुक्तक्रमलाभाथै पाठः । अतः पाठक्रमेणानुष्ठेयम् । यद्यपि प्राणायामप्रकारस्त्वग्रे सूत्रेऽपि वक्ष्यति, तथाऽपि वायुधारणसमर्थानां विस्तृततया प्रदर्शनं, अशक्तानां सूत्रस्थं ज्ञेयम् । विंश ति ग ण्डू षा नि त्यन्तः शेषः स्पष्टार्थः ॥३॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy