________________
पञ्चमः खण्डः --- ललितानवावरणपूजा
एवं प्रवेशयोग्यानुक्त्वा प्रवेष्टगुणानप्याह परमानन्दतन्त्रे
स्नातः शुचिर्धीतवस्त्रो धृतपुण्ड्रः शुभाशयः । क्षाळिताङ्घ्रिकरो देवीं ध्यायन् भक्त्या प्रणम्य च ॥ आचार्याज्ञाऽनुरूपेण मण्डलान्तर्विशेत् ततः । भावयन् देवतारूपं मण्डलं प्रणमेत् बुधः || पुष्पाञ्जलिं ततः कुर्यात् तद्विधानं निगद्यते । सामान्यकुंभतोयेन करौ प्रक्षाळ्य भक्तितः ॥ सुरभीकृत्य गन्धाद्यैः पैः पुष्पाण्यादाय भक्तितः । उत्थाय च ततो देवि देवताऽभिमुखस्थितः ॥ श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं
सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् । वीरान् ह्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकं
श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् || संप्राप्तपञ्चदश्यादिः साधकस्तु महेश्वरि । समष्टियोगिनीविद्यामपि तत्र पठेच्छिवे ॥ देवतां ध्यानोक्तरूपां ध्यायन् संपूज्य शङ्करि । आचार्यादींस्ततो ध्यात्वा पूजयेत् परमेश्वरि ॥ प्रणमेदुक्तविधिना ज्ञात्वा सर्वे शिवात्मकम् । सद्वितीयं समादद्यात् पात्रमाचार्यसत्तमात् ॥ पात्रं ग्राह्यं दक्षकरे दीक्षायुक्तेन शङ्करि । अन्येन तु समादेयं वामहस्तेन शङ्करि ॥ अथवा वामहस्तेन सर्वैर्ग्राह्यं महेश्वरि । हस्तान्तरेण त्वाच्छाद्य गृह्णीयात् दापयेदपि ॥ अनाच्छादितपात्रं तु भवेदसुरभागकम् । तर्पणाद्युपयोगे तु छादनं तु परित्यजेत् ॥ उपवेशक्रमं देवि शृणु संयतमानसा । मण्डलाकारतो वाऽपि चतुरश्रतयाऽथवा ॥
२०७