________________
२०६
परशुरामकल्पसूत्रम्
पूयिताङ्गस्तथोच्छिष्टमुखो मरणसूतकी । अपस्मारी क्लेशयुक्तः छदर्चतीसाररोगवान् ॥ प्रायश्चित्ती तथाsस्नातो न विशेन्मण्डले कचित् । सकृन्मोहात् प्रविष्टोऽपि देवताशापमाप्नुयात् ॥ यदि तेषां तु भक्तिः स्यादुत्कटा दर्शनादिषु । पूजागृहद्वारदेशाद्बहिः पूजां समाचरेत् ॥ इति ॥
त्रिपुरार्णवे भुक्तस्य विशेषः -
अर्को दिवा भुक्तो यदा रात्रौ समागतः । तदा गुर्वाद्याज्ञया तु स्नात्वा सेवेन चान्यथा ॥ इति ॥
इदमपि सेवनं मण्डलाद्बहिरेव ।
भुक्त्वा न मण्डलं गच्छेत् सर्वथा परमेश्वरि ।
इति मण्डलप्रवेश निषेधबाधकशास्त्राभावात् ॥
यच्च कुलार्णवे
अस्नात्वा वाऽपि भुक्त्वा वा 'अभक्त्या वा कुलेश्वरि । • यः सेवेत कुलद्रव्यं स दारिद्र्यमवाप्नुयात् ॥
इति भुक्तस्य कुलद्रव्यसेवननिषेधशास्त्रं कामं बाधतां प्रवेशनिषेधबाधकाभावात् प्रवेशो न कर्तव्यः । न च मण्डलात् बहिः स्वात्मीकारविध्यभावेन स्वात्मीकारविधिना प्रवेशोऽप्याक्षिप्यते इति वाच्यम् । तथा सति त्रिपुरार्णवे - " भुक्त्वा न मण्डलं गच्छेत्” इति प्रवेशनिषेधेनैव स्वात्मीकारनिषेधे सिद्धे
कुलद्रव्यं तथा भुक्त्वा मोहादपि प्रमादतः । यः सेवेत स वै देवि देवताशापमाप्नुयात् ॥
इत्यनेन उन्नीतः कुलद्रव्यसेवननिषेधो व्यर्थः स्यात् । अतोऽनेनैव ज्ञापकेन बहिरपि सेवनं द्रव्यस्य सिद्धम् ॥
1 अभ्यक्त्वा — श्री.