________________
पञ्चमः खण्डः – ललितानवावरणपूजा
२०५
संस्कृतद्रव्येण लौकिकं बहिष्ठं संस्कृतं भवेत् तर्हि अतिप्रसङ्गो दर्शितः पूर्वमेव । बहिर्द्रव्यस्य पात्रे प्रक्षेपपक्षे पूर्वोक्तातिप्रसङ्गोऽपि नास्ति । इदमपि साधकम् । तस्मात् द्वितीयपक्ष एव श्रेष्ठः । तत्रापि पूजानिमित्तं भक्तेनानीतस्थल एव अयं प्रकारो नान्यत्र, अशास्त्रीयत्वात् । इदानीन्तनाः बुद्धया यथेच्छं द्रव्यं संपाद्य मनःपूतं व्यवहरन्ति । तत्पतनायैवालं भविष्यतीति ॥
वस्तुतस्तु इदमपि तन्त्रान्तरानुयायिनां न तु सूत्रानुयायिनाम् । सूत्रे हविश्शेषं हुत्वेत्युक्त्या कलशस्थासंस्कृतद्रव्ये हविश्शेषत्वं गीर्वाणगुरुणाऽपि प्रतिपादयितुमशक्यम्, शास्त्रोक्तविधिना संस्कृत्य देवतायै दत्तशेषस्यैव हविश्शेषत्वात् । तस्मात् यागशेषेणैव होमप्रतिपत्तिसंस्कारः सूत्रानुयायिनां नान्यद्रव्येण इति राद्धान्तः ॥ ननु तर्पणे आवरणपूजने च कृते सति यदा तत्रैव विनियोगः तदा इदं कर्म लुप्तं स्यात् इति चेत् —न । यथा “ अश्वशफमात्रं पुरोडाशं करोति, ' अङ्गुष्ठपर्वमात्रमवद्यति,” इति विधिभ्यां अनुष्ठिते हविश्शेषो नियतः, तथा तन्त्रान्तरे
99 66
सामान्यकलशं पञ्चपलान्यूनजलैर्युतम् । दिक्पलादधिकं नैव हेतुकुंभं तदर्धकम् ॥ तदर्धं च विशेषार्घ्यम् .
11
इति मानानुसरणे सूत्रानुयायिनां हेतुकुंभस्थानापन्नविशेषार्थ्ये हेतुकुंभमानाङ्गीकारे षोडशशतगुञ्जापरिमितं विशेषार्घ्यद्रव्यं भवति । यदि च विशेषार्घ्यमानमेव अस्य तुल्यनामत्वात् अङ्गीक्रियते तदाऽपि अष्टशतगुञ्जापरिमितमित्यविवादम् । आवरणपूजादिषु एकैकदेवतोद्देशेन एकैकबिन्दुविनियोगो दृश्यते । तथा सति सामयिकानामात्मनश्च होमायालं द्रव्यं शिष्यत एव । अस्मिन् शास्त्रे द्रव्यस्वीकारजनितोऽवस्थाविशेषः उल्लासः। सोऽपि द्रव्यस्यात्युत्तमत्वे भवितुमर्हति इति न काऽप्यनुपपत्तिः ॥ अत्र होमेतिकर्तव्यतायाः शिष्टानां मण्डले प्रवेशधर्माणां च अनुक्तेः कथं शिष्टैः सह होमं कुर्यात् इत्याकाङ्क्षायां तन्त्रान्तरं तद्विषये शरणीकार्यम् । तथा सति आदौ मण्डलधर्मा उच्यन्ते । ते चोक्ताः परमानन्दतन्त्रे
क्षताङ्गो ज्वरिताङ्गश्च मलिनाम्बरमूर्धजः । आशौचाङ्गस्तथोष्णीषी कञ्चुकी कृतभोजनः ॥