________________
२०४
परशुरामकल्पसूत्रम् ईदृशं शिष्टत्वं सामयिकनिष्ठम् । एतेन विशेषणेन आधुनिकाः कौळिकंमन्याः केवलं जिह्वाचपलाः मण्डले न प्रवेश्याः इति ज्ञापितं भवति । सामयिकैः सहेति सहत्वं एकजातीयक्रियाकर्तृत्वं, " पुत्रेण सह याति" इत्यादौ तथा दृष्टत्वात् । प्रकृतेऽपि होमरूपैकजातीयक्रियाकर्तृत्वमस्तीति सहत्वं उपपन्नम् । चि दनौ 'चिल्लक्षणेऽनौ ह विश्शे षं देवतोद्देशेन संस्कृतार्पितशेषम् । हु त्वे त्यनेन तत्र केवलहोमबुद्धिरेव विधेया । इन्द्रियतृप्तिविषयिणीच्छा न कदाऽपि कार्येति सूचितं भवति । मण्डले प्रवेशे इन्द्रियतृप्तीच्छायां पतित एव स्यात् इति भावः । अयं च उपयुक्तद्रव्यसंस्कारः “ आमेयं चतुर्धा करोति" इतिवत् , हविश्शेषं इति द्वितीयाश्रवणात् ॥
एतेनेदानीन्तनाः एकं कलशं असंस्कृतद्रव्येण परिपूर्ण स्थापयित्वा तस्मिन् विशेषार्यबिन्दुं किञ्चिन्निक्षिप्य तद्र्व्यं सामयिकेभ्यः प्रयच्छन्ति । तेषामनुकूलतया निबन्धकारोऽपि क्षीरकलशादिकं देव्याः पश्चाद्भागे निधायेति, विशेषार्घ्यपात्रात् किञ्चित् क्षीरं कलशे निक्षिपेत् इति च वाक्यद्वयं लिलेख । इदं मूलं कृत्वा य ईदृशोऽनाचारः पतनहेतुः प्रवृत्तः स लिखितसूत्रविरोधेन निरस्तः, तस्मिन् हविःशेषत्वाभावात् । यदि च बिन्दुमात्रप्रक्षेपेण हविश्शेषत्वं संस्कृतत्वं स्यात् तर्हि आपणस्थद्रव्येऽपि बिन्दुप्रक्षेपं कृत्वा द्रव्यस्वीकारे दोषाभावेन महानुपप्लवः स्यात् ॥ यच्च त्रिपुरार्णवे
तथा पूजानिमित्तं वै प्रथमाद्यमुपाहृतम् । यज्ञियं तत् पवित्रं स्यात् दृष्ट्वा स्पृष्ट्वा शुचिर्भवेत् ॥ तथैव मण्डले प्राप्तं सर्व तदमृतं भवेत् । विप्रेणान्येन वाऽऽनीतं देवतायै निवेदयेत् ॥ प्रथमाद्यैः संस्कृतैस्तु युक्तं तत्तदगात्मजे ।
अविशेषेण सर्वैस्तु ग्राह्यं शङ्काविवर्जितैः ॥ इति ॥ संस्कृतद्रव्येण युक्तं असंस्कृतं संस्कृतं भवतीति कथयतीति यद्युच्यते, तथाऽपि संस्कृतद्रव्यसंयोगो द्वेधा । संस्कृतद्रव्यस्य असंस्कृतद्रव्यपात्रे प्रक्षेपे सति एकः, संस्कृते विशेषार्घ्यपात्रे असंस्कृतद्रव्यप्रक्षेपेणापरः । तत्र पूर्वस्मात् पक्षात् उत्तरपक्षो वरिष्ठः, श्रौते कर्मणि सोमे द्रोणकलशे दर्शपूर्णमासे ध्रुवादौ तथा दृष्टत्वात् । किं च यदि