________________
२०८
परशुरामकल्पसूत्रम् आचार्य मध्यतः कृत्वा विशेत् ज्येष्ठक्रमेण तु । ज्येष्ठेषु सत्सु न विशेत् आचार्यस्य समीपतः ॥ न साम्येन गुरोः स्थेयं स्त्रीणां मध्ये तथैव च । नाग्रतस्तु गुरोर्देवि नाज्ञामुल्लङ्घय वै गुरोः ॥ एवं ज्ञात्वा संप्रदायं निषीदेन्मण्डले शिवे । आचार्योऽपि तथा ज्येष्ठानुत्थाय प्रणिपत्य च ॥ तेषामाज्ञां गृहीत्वैव स्वासनेऽथ समाविशेत् । तस्मै च पात्रं दद्याद्वै ज्येष्ठायोत्थाय साधकः ॥ ज्येष्ठान् कनिष्ठोऽपि देवि गृह्णीयादुत्थितो नमन् । सर्वान् संपूज्य पात्राणि दातव्यानि महेश्वरि ॥ असंपूज्य शिष्यमपि यो दद्यात् पात्रमम्बिके । तस्मै कुप्यति सा देवी यस्मात् सर्व हि तन्मयम् ॥ प्रक्षाळ्य पात्रं पुष्पादियुतमाच्छाद्य यत्नतः । आचार्याय तथा दद्यात् नमस्कुर्याच्च भक्तितः ॥
स्वीकृत्य तत्प्रसादं वै जप्त्वा स्तोत्रादिकं पठेत् ॥ इति ॥ त्रिपुरार्णवे
शक्त्या स्वर्णादिसंयुक्तमर्पयेत् पात्रमम्बिके ।
यत्किंचिद्वाऽपि पात्रस्थं दत्वाऽनन्तफलं लभेत् ॥ इति ॥ सुवासिनीनां विशेषो योगिनीतन्त्रे
एवं सन्तर्प्य हुत्वा तु सुवासिन्यः सशेषकम् ।
दद्युस्तृतीयं तुर्य वा पात्रं पीठाधिकारिणे ॥ इति ॥ त्रिपुरार्णवे कश्चिद्विशेषः
वीरात् ज्येष्ठात् तथाऽऽचार्यात् ग्राह्यं शेषं च चर्वणम् । तदभावेऽपि चान्यस्मात् ज्येष्ठात् ग्राह्यं नगात्मजे ॥