SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ पञ्चमः खण्डः-ललितानवावरणपूजा २.१ इति शक्तिसङ्गमतन्त्रे उक्तत्वात् । अजः विष्णुः । वेदाः चतस्रः । अर्धे तदर्धे द्वयम् । चन्द्रः एकः । वह्निः तिस्रः । अद्रिः सप्त । इमाः सङ्ख्याः अजादिप्रदक्षिणे क्रमात् ज्ञेयाः इत्यर्थः । श्रीमच्छङ्करभगवत्पादैरपि “प्रदक्षिणं ते परितः करोमि" इत्येकवचनान्तमेवोक्तम् ॥ नमस्कारे तु इच्छैव नियामिका शास्त्रोपलब्धिपर्यन्तम् । नमस्कारे कश्चिद्विशेषः परमानन्दतन्त्रे पूजागृहाबहिर्देवी प्रणमेत् दण्डवद्भुवि । मण्डले नमनं नैव साष्टाङ्ग दण्डवत् चरेत् ॥ जानुभ्यां च पदाभ्यां च मूर्त्ता हस्तयुगेन च । चतुरङ्गप्रणामोऽयं मण्डले विहितः शिवे ॥ इति ॥ मण्डललक्षणं योगिनीतन्त्रे पूज्यते यत्र सा देवी तच्चतुर्दिक्षु शङ्करि । धनुश्शतप्रमाणेन मण्डलं परिकीर्तितम् ॥ इति ॥ धनुर्मानं तु हस्तचतुष्टयम् । बृहद्वामकेश्वरे तु मण्डलं तद्विजानीयात् यावदृश्या हि देवता ॥ इति ॥ रहस्यार्णवे तु द्वारपूजा यत्र कृता तदन्तर्मण्डलं विदुः ॥ इति ॥ . __ अयं च देशतः परिच्छेद उक्तः । कालतः परिच्छेदस्तु शक्तिसङ्गमतन्त्रे द्वारपूजां समारभ्य यावदुद्वासनं भवेत् । तावत्तन्मण्डलं विद्धि . . . . . . . ॥ इति ॥ त्रिपुरार्णवेऽपि इदं तन्मण्डलं देवि प्रारभ्यतस्य पूजनम् ।। मार्ताण्डमण्डलाान्तं . . . . . . . ॥ इति ॥ ___ इदमेव मण्डलं वक्ष्यमाणमण्डलधर्मेषु ज्ञेयम् । 26
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy