________________
परशुरामकल्पसूत्रम् बलिपात्रं ताम्रभवं नैवान्यत्तु कदाच न ॥ इति त्रिपुरार्णववचनात् । व्यञ्जनादिमिश्रणं न कार्यम् , एतत्तन्त्रे उक्तद्रव्येणैव द्रव्याकाङ्क्षाशान्तः ॥
अत्र निबन्धकारः बाणमुद्रया बलिदानं वामपाणिघातादिकं लिलेख । स प्रष्टव्यः किं अत्र प्रमाणं इति । स यदि ब्रूयात् श्यामाप्रकरणे सूत्रे उक्तत्वात् अत्रापि ते धर्मा गृह्यन्ते इति, तर्हि तद्ग्रहणं आकाङ्क्षया, उत अनाकाङ्क्षया । आये बलिदाने द्रव्यदेवतामन्त्राणामाकाङ्क्षोदिता प्रकृतवाक्यैरेव शान्ता । बाणमुद्राया वामपाणिघातस्य च ग्रहणं कुर्वतः तस्यैव कीदृशी आकाङ्क्षोदितेति च न विद्मः । किं च श्यामाप्रकरणस्थपार्णिघातादिधर्मेण किमपकृतम् । क्षेत्रपालवागीश्वर्यादिबल्योऽपि तत्र सन्ति । उक्तव्यतिरिक्ता अन्येऽपि मन्त्राः सन्ति । तैः निबन्धकृतोऽपराधः कोऽनुष्ठितः । श्यामाप्रकरणस्थत्वस्य तुल्यत्वेऽपि केषु चित् अनुगृह्णन् जग्राह केषु चित् रुष्टः तत्याज्येति मूलं न विद्मः । किंच तत एव त्रिकोणादिमण्डलधर्माणां प्राप्तौ पुनर्विधानमत्र किमर्थ इति चेत् वाग्बन्धनमेवोत्तरं नान्यदिति । तस्मात् स्वेच्छया धर्मप्रवर्तकसरणिः अश्रद्धेया । यावदुक्तं कार्यम् ॥ १८ ॥
बलिदाने मन्त्रमाह
प्रणवमायाऽन्ते सर्वविघ्नकृद्भयः सर्वभूतेभ्यो हुँ खाहा इति त्रिः पठित्वा बलिं दत्वा ॥ १९ ॥
त्रिः इत्यनेन मन्त्राभ्यासो विहितः । तेन त्रिःपाठान्ते बलिदानम् । देवता च मन्तलिङ्गेन ज्ञेया ॥ १९ ॥
प्रदक्षिणादि प्रदक्षिणनमस्कारजपस्तोत्रैः सन्तोष्य ॥ २० ॥ प्रदक्षिणमेकं कार्यम् ,
अजेशशक्तिगणपभास्कराणां प्रदक्षिणे । वेदार्धचन्द्रवन्यद्रिसङ्ख्याः सर्वार्थसिद्धयः ॥